________________
नन्दिसूत्रम् ॥ १७७॥
न. सू. १५
परगेणं संखिज्जा अक्खरा, अनंता गमा, अनंता पजवा, परित्ता तसा, अणंता थावरा, सासयकनिबद्धनिकाइया जिणपन्नता भावा आघविज्जति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिजंति उवदंसिज्जति । से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूयगडे ॥ २ ॥
अथ किं तत्सूत्रकृतं ?, 'सूच पैशुन्ये' सूचनात् सूत्रं निपातनात् रूपनिष्पत्तिः, सा च प्रधानश्च अयं सूत्रशब्दः, ततोऽयमर्थः, - सूत्रेण कृतं सूत्ररूपतया कृतं इत्यर्थः यद्यपि च सर्वमङ्गं सूत्ररूपतया कृतं तथापि रूढिवशात् एतत् एव सूत्रकृतं उच्यते, न शेषं अंगं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'णं' इति वाक्यालंकारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरिया - वाइसस्स' इत्यादि । अशीति अधिकस्य क्रियावादिशतस्य, चतुरशीतेः अक्रियावादिनां सप्तषष्टेः अज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसंख्यया त्रयाणां त्रिषष्यधिकानां पाखण्डिशतानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते । तत्र न कर्त्तारमंतरेण क्रिया पुण्यधादिलक्षणा संभवति । तत एवं परिज्ञाय तां क्रियां - आत्मसमवायिनीं वदंति तत् शीलाच ये ते क्रियावादिनस्ते पुनरात्मादि अस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन अशीत्यधिकशतसंख्या विज्ञेया । जीवाजीवाश्रवबंधसंवर निर्जरा पुण्यापुण्य मोक्षरूपान् नव पदार्थान् परिपाट्या पट्टिकादी विरचय्य जीवपदार्थस्याधः स्वपर भेदावुपन्यसनीयौ तयोः अधो नित्यानित्यभेदौ, तयोरपि अधः कालेश्वरात्मनियतिस्वभावभेदाः पंच न्यसनीयाः, पुनश्च एवं विकल्पाः कर्त्तव्याः, तद्यथा - अस्ति जीवः खतो नित्यः कालतः इत्येको विकल्पः, | अस्य च विकल्पस्य अयमर्थः - विद्यते खलु अयं आत्मा स्वेन रूपेण नित्यथ कालतः कालवादिनो मते, कालवादिनश्च नाम ते
अवचूरिसमलंकृतम्
॥ १७७॥