________________
नन्दिवत्रम् ॥१७५॥
प्रथमश्रुतस्कंधे । “पिंडेसण ( १ ) सिज्झि ( २ ) रिया (३) भासजाया ( ४ ) य वत्थ ( ५ ) पाएसा ( ६ ) । उग्गहपडिमा (१) सत्तसत्तिका ( १४ ) य भावण (१५) विमुत्ति ( १६ ) ॥ १ ॥ " अत्र 'सेजिरिय'त्ति शय्याध्ययनं ईर्याध्ययनं च । 'वत्थपाएस' तित्रत्र - एषणाध्ययनं पात्र - एषणाध्ययनं च, अमूनि षोडश अध्ययनानि द्वितीयश्रुतस्कंधे । एवमेतानि निशीथवर्जानि पंचविंशतिः अध्ययनानि भवति, तथा पंचाशीतिः उद्देशनकालाः, कथं चेद् ? उच्यते, इह अंगस्य श्रुतस्कंधस्य अध्ययनस्य उद्देशकस्य च एक एव उद्देशनकालः । एवं शस्त्रपरिज्ञायां सप्त उद्देशन कालाः ७ लोकविजये पट् १३ शीतोष्णाध्ययने चत्वारः १७ सम्यक्त्वा - ध्ययने चत्वारः २१ लोकसाराध्ययने पद् २७ घुताध्ययने पंच ३२ विमोहाध्ययनेऽष्टौ ४० महापरिज्ञायां सप्त ४७ उपधानश्रुते चत्वारः ५१ पिंडैषणायां एकादश ६२ शज्झेषणाध्ययने त्रयः ६५ ईर्याध्ययने त्रयः ६८ भाषाध्ययने द्वौ ७० वस्त्र - एषणाध्ययने द्वौ ७२ पात्रैषणाध्ययने द्वौ ७४ अवग्रहप्रतिमाध्ययने द्वौ ७६ सप्तसप्तिकाध्ययनेषु पटू ८३ भावनायां एकः ८४ विमुक्तौ एकच ८५ एवं एते सर्वेऽपि पंडिताः पंचाशीतिः भवंति । एवं समुद्देशनकाला अपि पंचाशीतिर्भावनीयाः, तथा पदाग्रेण परिमाणेन अष्टादशपदसहस्राणि, इह यत्र अर्थोपलब्धिस्तत् पदम् । तथा संख्येयानि अक्षराणि, पदानां संख्येयत्वात् । तथा इह गमाः - अर्थगमा गृह्येते । अर्थगमा नाम अर्थपरिच्छेदास्ते च अनंता, एकस्मादेव सुत्रात् अतिशायिमतिमेधादिगुणानां तत्तत् धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् । तथा अनंताः पर्यायाः ते च खपरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः परिमिताः त्रसाद्वींद्रियादयः, अनंता: स्थावराः - वनस्पतिकायादयः, शाश्वता-धर्मास्तिकायादयः कृताः - प्रयोगविस्रसा जन्याः घटसंध्याभ्ररागादयः, एते सर्वेपि त्रसादयो निबद्धा:-सूत्रे स्वरूपतः उक्ता, निकाचिताः-निर्युक्तिसंग्रहणिहेतुउदाहरणादिभिः अनेकधा व्यवस्थापिता
अवचूरिसमलंकृतम्
।। १७५ ।।