________________
नन्दिपत्रम
॥१७४॥
ACCIRCC
उववूहथिरीकरणे वच्छलप्पभावणे अट्ठ ॥२॥" प्रभावकाः तीर्थस्य अमी द्रष्टव्या:-'अइसेस इड्डियायरिय वाई धम्मकहि खबग
अवरिनेमित्ती । विजा रायागणसंमया य तित्थं पभावंति ॥१॥ चारित्राचार:-'पणिहाणजोग जुत्तो पंचहिं समिईहिं तिहि उ ४ समलंकृतम् गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्यो ॥१॥ तप आचारः पारस विहंमि वि तवे अभितरवाहिरे जिणुवइ? । अगिलाइ अणाजीवी नायव्यो सो तवायारो ॥ १ ॥ वीर्याचार:-"अणिगृहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुजइ य जहाथामं नायब्वो वीरियायारो ॥ १॥" आचारे णं इति वाक्यालंकारे, 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं च अधिकृत्य आद्यन्तोपलब्धिः, अथवा उत्सर्पिणी अवसर्पिणी च प्रतीत्य परीत्ता द्रष्टव्याः, कासावित्याह-वाचना' वाचना नाम सूत्रस्य अर्थस्य वा प्रदानं, यदि पुनः सामान्यतः प्रवाहं अधिकृत्य चिंत्यते तदा अनंताः, तथा संख्येयानि अनुयोगद्वाराणि | उपक्रमादीनि, तानि हि अध्ययनं २ प्रति प्रवर्तते, अध्ययनानि च संख्येयानि इति कृत्वा, तथा संख्येया वेढा, वेढो नाम छंदोविशेषः, तथा संख्येयाः श्लोकाः-सुप्रतीताः, तथा संख्येया नियुक्तयः, तथा संख्येयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमादि अभिग्रहविशेषा वा ताः सूत्रनिबद्धाः संख्येयाः, स आचारो 'ण' इति वाक्यालंकारे अंगार्थतया-अंगार्थत्वेन, अर्थग्रहणं परलोकचिंतायां सूत्राद् अर्थस्य गरीयस्त्वख्यापनार्थ, अथवा सूत्रार्थ-उभयरूप आचारः | इति ख्यापनार्थ, प्रथमं अंगं, एकारांतता सर्वत्र मागधभाषालक्षणानुसरणात् वेदितव्या, स्थापनामधिकृत्य प्रथमं अंगमित्यर्थः। ॥१७४।। तथा द्वौ श्रुत्तस्कंधौ-अध्ययनसमुदायरूपौ, पंचविंशतिः अध्ययनानि, तद्यथा-"सत्थ परिन्ना (१) लोगविजओ (२) सीओसणिज्ज (३) संमत्तं (४) आवंति (५) धूय (६) विमोहो (७) महापरिनो (८) वहाणसुयं (९)॥१॥" एतानि नव अध्ययनानि
ORG