________________
नन्दिसूत्रम् ॥१७३॥
अथ किं तदंगप्रविष्टं ? सूरिराह- अंगप्रविष्टं द्वादशविधं प्रज्ञप्तं तद्यथा- 'आचारः सूत्रकृत' मित्यादि, अथ किं तदाचार इति ? अथवा कोऽयं आचारः ? आचार्य आह- आचरणं आचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञानादि आसेवनविधिः इत्यर्थः । तत्प्रतिपादको ग्रंथोऽपि आचार एव उच्यते । अनेन वाऽऽचारेण करणभूतेन अथवा आचारे आधारभूते 'णं' इति वाक्यालंकारे श्रमणानां प्रानिरूपितशब्दानां निर्ग्रथानां बाह्याभ्यंतरग्रंथरहितानां, आह-श्रमणा निग्रंथा एव भवति तत् किमर्थं निर्ग्रथानां इति विशेषणं उच्यते, शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यते । तदुक्तं- 'निम्गंथ सक ताबस गेरुय आजीव पंचहा समणा' इति । तेषां आचारादि आख्यायते, तत्र आचारो ज्ञानाचारादि अनेकभेदभिन्नो गोचरो - भिक्षा ग्रहण विधिलक्षणः विनयो- ज्ञानादिविनयः, वैनयिकं विनयफलं कर्म्मक्षयादिशिक्षा ग्रहणशिक्षा आसेवन शिक्षा वा विनेयशिक्षा इति चूर्णिकृत् । तत्र विनेयाः- शिष्याः । तथा भाषा सत्या असत्या मृषा च, अभाषा - मृषा सत्यामृषा च । चरणं-त्रतादि, करणं- पिंडविशुद्ध्यादि, उक्त च-“वयसमणधम्मसंजमवेयावच्चं च भगुत्तीओ । नाणाइतियं तव कोहनिम्गाई चरणमेयं ॥ १ ॥ पिंडविसोहीस मिईभावणपडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चैव करणं तु ॥ २ ॥" यात्रा - संयमयात्रा तदर्थ एव परिमिताहारग्रहणं वृत्ति:विविधैः अभिग्रहविशेषैः वर्त्तनं, 'आचारथ गोचरथ' इत्यादिः द्वन्द्वः, ता आचारगोचरविनय वैनयि कशिष्याभाषा भाषाचरणकरणयात्रामात्रावृत्तयः आख्यायंते । इदं यत्र क्वचित् अन्यतरोपादानेन अन्यतरगतार्थाभिधानं तत् सर्वं तत् प्राधान्यख्यापनार्थ अवसेयं । स आचारः 'समासतः' संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा - 'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः, "काले विणए बहुमाणे, उवहाणे तह य निह्नवणे | वंजण अत्थतदुभए अद्वविहो नाणमायारो ॥ १ ॥” दर्शनाचारः, “निस्संकिय निकंखिय निव्त्रितिगिच्छामूढदिट्ठीय ।
अवचूरिसमलंकृतम्
॥१७३॥