________________
नन्दिसूत्रम्
॥१७॥
************
भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो बचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धति-II अवचूरिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते: समलंकृतम् प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतां अपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु बर्द्धमानस्वामिनः चतुर्दश श्रमणसहस्राणि, ततः प्रकीर्णकानि अपि भगवतः चतुर्दशसहस्राणि, अत्र द्वे मते-एके सूरयः प्रज्ञापयंति-इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणान् अधिकृत्य वेदितव्यं । इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तसिनृपभादिकाले आसीरन् । अपरे पुनः एवं प्रज्ञापयंति-ऋषभादितीर्थकृता जीवतां इदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं । प्रवाहतः पुनः एकैकस्मिन् तीर्थे भृयांसः श्रमणा वेदितव्याः। तत्र ये प्रधानसूत्रविरचनशक्तिसमन्वितसुप्रसिद्धतत् ग्रंथा अतत्कालिका अपि तीर्थे वर्तमानास्तेऽधिकृता द्रष्टव्याः । एतदेव मातरं उपदर्शयन्नाह-'अथवा' इति प्रकारांतरोपदर्शने यस्य ऋषभादेः तीर्थकृतो यावंतः शिष्याः तीर्थे औत्पत्तिक्या बैनयिस्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः-समन्विता आसीरन् , तस्य-ऋषभादेः तावति प्रकीर्णकसहस्राणि अभवन् , प्रत्येकबुद्धा अपि तावंत एव, अत्र एके व्याचक्षते
तः तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणां अपरिमाणत्वात् , केवलं इह प्रत्येकबुद्धरचितानि |8|॥१७१।। एवं प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबद्धपरिमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकवुद्धानां शिष्यभावो विरुध्यते, 16 तदेतदसमीचीनं यतः प्रव्राजकाचार्य एवं अधिकृत्य शिष्यभावो निषिध्यते । ननु तीर्थकरोपदिष्टशासनप्रतिपनत्वेनापि ततो न कश्चित्
***