SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | ॥१७॥ अवचूरि| समलंकृतम चूर्णिकृतोपदर्शिता भावना-"जाहे तं अज्झयणं समणे निग्गंथे परियट्टेइ ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चेव तं समणं परियाणति-चंदंति नमसंति बहुमाणं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति" तथा यत्रावलिकाप्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिखाभाव्यात, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इति याः सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्ताः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, पुष्पिता इति यासु ग्रंथपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुनस्ततः तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिताः उच्यते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः तथा 'वृष्णिदशा' इति, 'नाम्युत्तरपदस्य वेति लक्षणवशादादिपदस्यान्धकशब्दरूपस्य लोपः, ततोऽयं परिपूर्णः शब्दः अन्धकवृष्णिदशा इति, अयं चान्वर्थः-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरित| गतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः, अथवाज्धवृष्णिवक्तव्यताप्रतिपादिका दश-अध्ययनानि अन्धकवृष्णिदशा । कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः, तथा सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोस्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् , कथमिति चेत् ?, उच्यते, इह यद्भगवदर्हदुपदिष्टं श्रुतमनुसृत्य ॥१७॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy