SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रमा अवचूरिसमलंकृतम् ॥१६८॥ RECE गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥३॥" भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः । तथा विहारकल्प इति, विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रंथे स विहारकल्पः । तथा चरण-चारित्रं तस विधिः यत्र बर्फाते स चरणविधिः । तथा 'आतुरप्रत्याख्यानं' इति, आतुरः-चिकित्साक्रियाव्यपेतः तस्य प्रत्याख्यानं यत्र अध्ययने विधिपूर्वक उपवर्ण्यते तत् आतुरप्रत्याख्यानं, तथा महत् प्रत्याख्यानं यत्र वर्ण्यते तत् महाप्रत्याख्यानं एवं तावत् अमूनि अध्ययनानि-एतानि अध्ययनानि जहाभिहाणत्थाणि भणियाणि' तत् एतत् उत्कालिकं । उपलक्षणं च एतत् इति उक्तं उत्कालिकं । अथ किं तत् कालिकं ? कालिक अनेकविध प्रज्ञप्तं, तद्यथा इत्यादि, 'उत्तराध्ययनानि सर्वाणि अपि च अध्ययनानि प्रधानानि एव तथापि अमूनि एव रूढ्या उत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि । दशा इत्यादि प्रायो निगदसिद्ध । निशीथं इति निशीथवत् निशीयः, इदं प्रतीतमेव, तस्मात् परं यत् ग्रंथार्थाभ्यां महत्तरं निशीथाभ्यां महत्तरं तत् महानिशीथं । तथा आवलिकाप्रविष्टानां इतरेषां वा विमानानां वा प्रविभक्तिःप्रविभजनं यस्यां ग्रंथपद्धतौ सा विमानप्रविभक्तिः, सा च एका स्तोकग्रंथार्था, द्वितीया महाग्रंथार्था, तत्र आधा क्षुल्लकविमानप्रविभक्तिः, द्वितीया महाविमानप्रविभक्तिः । अंगस्य-आचारादेः चूलिका अंगचूलिका। चूलिका नामोक्तानुक्तार्थसंग्रहात्मिका ग्रंथपद्धतिः, वर्गोऽध्ययनानां समूहो यथा अंतकृत दशासु अष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याः चूलिका व्याख्या चूलिका । तथा अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रंथः परावर्त्यमानश्च तत् उपपातहेतुः सोऽरुणोपपातः, तथा च अत्र चूर्णिकारो भावनां अकार्षीत् 'जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टेइ ताहे से अरुणदेवे समयनिबद्धचणओ चलियासणसंभमुभंतलोयणे पउत्तावही वियाणियढे पढे चलचवलकुंडलधरे दिवाए जुईए दिवाए विभूईए दिबाए गईए जेणामेव से भयवं ॥१६॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy