________________
नन्दिसत्रमा
अवचूरिसमलंकृतम्
॥१६८॥
RECE
गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥३॥" भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः । तथा विहारकल्प इति, विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रंथे स विहारकल्पः । तथा चरण-चारित्रं तस विधिः यत्र बर्फाते स चरणविधिः । तथा 'आतुरप्रत्याख्यानं' इति, आतुरः-चिकित्साक्रियाव्यपेतः तस्य प्रत्याख्यानं यत्र अध्ययने विधिपूर्वक उपवर्ण्यते तत् आतुरप्रत्याख्यानं, तथा महत् प्रत्याख्यानं यत्र वर्ण्यते तत् महाप्रत्याख्यानं एवं तावत् अमूनि अध्ययनानि-एतानि अध्ययनानि जहाभिहाणत्थाणि भणियाणि' तत् एतत् उत्कालिकं । उपलक्षणं च एतत् इति उक्तं उत्कालिकं । अथ किं तत् कालिकं ? कालिक अनेकविध प्रज्ञप्तं, तद्यथा इत्यादि, 'उत्तराध्ययनानि सर्वाणि अपि च अध्ययनानि प्रधानानि एव तथापि अमूनि एव रूढ्या उत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि । दशा इत्यादि प्रायो निगदसिद्ध । निशीथं इति निशीथवत् निशीयः, इदं प्रतीतमेव, तस्मात् परं यत् ग्रंथार्थाभ्यां महत्तरं निशीथाभ्यां महत्तरं तत् महानिशीथं । तथा आवलिकाप्रविष्टानां इतरेषां वा विमानानां वा प्रविभक्तिःप्रविभजनं यस्यां ग्रंथपद्धतौ सा विमानप्रविभक्तिः, सा च एका स्तोकग्रंथार्था, द्वितीया महाग्रंथार्था, तत्र आधा क्षुल्लकविमानप्रविभक्तिः, द्वितीया महाविमानप्रविभक्तिः । अंगस्य-आचारादेः चूलिका अंगचूलिका। चूलिका नामोक्तानुक्तार्थसंग्रहात्मिका ग्रंथपद्धतिः, वर्गोऽध्ययनानां समूहो यथा अंतकृत दशासु अष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्या-भगवती तस्याः चूलिका व्याख्या चूलिका । तथा अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रंथः परावर्त्यमानश्च तत् उपपातहेतुः सोऽरुणोपपातः, तथा च अत्र चूर्णिकारो भावनां अकार्षीत् 'जाहे तमज्झयणं उवउत्ते समाणे अणगारे परियट्टेइ ताहे से अरुणदेवे समयनिबद्धचणओ चलियासणसंभमुभंतलोयणे पउत्तावही वियाणियढे पढे चलचवलकुंडलधरे दिवाए जुईए दिवाए विभूईए दिबाए गईए जेणामेव से भयवं
॥१६॥