________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१६७॥
तथा यत्र अध्ययने चंद्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मंडलेषु संचरतो यथा मंडलात मंडले प्रवेशो भवति तथा व्यावयेते तदध्ययनं मंडलप्रवेशः । तथा 'विजाचरणविनिश्चय' इति विद्या इति-ज्ञानं, तत् च सम्यग्दर्शनसहितं अवगंतव्यं, अन्यथा ज्ञानत्वायोगात, चरण-चारित्रं तेषां फलविनिश्चयप्रतिपादको ग्रंथो विद्याचरणविनिश्चयः, तथा 'गणिविजे ति सबालवृद्धो गच्छो गणः । सोऽस्यास्तीति गणी-आचार्यः तस्य विद्या-ज्ञानं गणिविद्या, सा च इह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदितव्या। ज्योतिष्कनिमित्तादिकं हि सम्यक् परिज्ञापरिव्राजनसामायिकारोपणोपस्थापनश्रुतोद्देशानुज्ञारोपणादिशानुज्ञाविहारक्रमादिप्रयोजनेषु उपस्थितेषु प्रशस्ते तिथिकरणमुहूर्त्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत् तत्र सूरिणा कर्त्तव्यं, तथा चेत् न करोति तर्हि महान् दोषः, ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवंति तानि तत्र यस्यां ग्रंथपद्धतौ व्यावय॑ते सा गणिविद्या, तथा ध्यानविभक्तिः इति, ध्यानानि-आर्तध्यानादीनि तेषां विभजन-विभक्तिः यस्यां ग्रंथपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तानि अप्रशस्तानि च, तेषां विभजन-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रंथपद्धतौ सा मरणविभक्तिः, तथाऽऽस्मनो-जीवस्याऽऽलोचनं-प्रायश्चित्तप्रतिपत्तिप्रभृतिप्रकारेण विशुद्धिः-कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रंथपद्धतौ-सा आत्मविशुद्धिः । तथा वीतरागश्रुतमिति, सरागव्यपोहेन वीतराग वरूपं प्रतिपाद्यते यत्र अध्ययने तद् वीतरागश्रुतं, तथा संलेखनाश्रुतं इति, द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत् संलेखनाश्रुतं, तत्र उत्सर्गत इयं द्रव्यसंलेखना। "चत्तारि विचित्ताई विगई निजहियाई चत्तारि । संवच्छरे उ दोनि उ एगंतरियं च आयामं ॥ १ ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम । अन्नेवि य छम्मासे होइ विगिहें तपोकम्मं ॥२॥ वासं च कोडिसहियं आयामं कट्ट आणुपुचीए ।
॥१६७॥