SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | ॥१६६॥ अवचूरिसमलंकृतम् व्युत्पत्तेः । यत्पुनः कालवेलावजं पठ्यते तत् उत्कालिकं । तत्राल्पवक्तव्यत्वात् प्रथमं उत्कालिकं अधिकृत्य प्रश्नसूत्रमाह-अथ किं तत् उत्कालिकं श्रुतं?, सरिराह-उत्कालिकं श्रुतं अनेकविधं प्रज्ञप्त, तद्यथा-दशवकालिकं तच्च सुप्रतीतं, तथा कल्प्याकल्प्यप्रतिपादकं अध्ययनं कल्प्याकल्प्यं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं । तत्पुनर्द्वि भेदं, तद्यथा-'चुल्लकप्पसुर्य | महाकप्पसुर्य' एकं अल्पग्रंथं अल्पार्थ च, द्वितीयं महाग्रंथं महाथं च । शेषाः ग्रंथविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोप्रसिद्धान् | व्याख्यास्यामः, तत्र जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना । सा एव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकं अध्ययनं प्रमादाप्रमाद, तत्र प्रमादस्वरूपं एवं-प्रचुरकर्मेधनप्रभवनिरंतराविध्यातशारीरमानसाऽनेकदुःखहुतवहज्जालाकलापपरीतं अशेपं एव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि च तत् निर्गमनोपाये वीतरागप्रणीतधर्मचिंतामणौ यतो विचित्रकम्मोदयसाचिव्यजनितात् परिणामविशेषात् अपश्यन् इव तत् भयं अवगणय्य विशिष्टपरलोकक्रियाविमुख एव आस्ते जीवः स खलु प्रमादा, तस्य च प्रमादस्य ये हेतवो मद्यादयः तेऽपि प्रमादाः तत्कारणत्वात् , उक्तं च-"मजं विसयकसाया निद्दा विगहा य पंचमी भणिया ।। एवं पंच पमाया जी पाडति संसारे ।।१।" एतस्य पंचप्रकारस्थापि प्रमादय फलं दारुणो विपाकः, एवं प्रतिपक्षद्वारेण अप्रमादस्यापि स्वरूपादयो बाच्याः। 'नंदी'त्यादि सुगमं । सूर्यचर्याप्रज्ञापनं यस्यां ग्रंथपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषी मंडलं' इति पुरुषःशंकुः पुरुषशरीरं वा तस्मिन् निष्पन्ना पौरुपी 'तत आगत' इत्यण, इयमत्र भावना-सर्वस्यापि वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति । एतच्च पौरुपीप्रमाणं उत्तरायणस्यांते दक्षिणायनस्त्रादौ च एक दिनं भवति, ततः परं अंगुलस्य अष्टौ एकपष्टिभागा दक्षिणायने बर्द्धते । उत्तरायणे च हसंति, एवं मंडले मंडलेऽन्यान्या पौरुषी यत्र अध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमंडलं, RAGRAMGANGACANCC
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy