________________
नन्दिसूत्रम् | ॥१६६॥
अवचूरिसमलंकृतम्
व्युत्पत्तेः । यत्पुनः कालवेलावजं पठ्यते तत् उत्कालिकं । तत्राल्पवक्तव्यत्वात् प्रथमं उत्कालिकं अधिकृत्य प्रश्नसूत्रमाह-अथ किं तत् उत्कालिकं श्रुतं?, सरिराह-उत्कालिकं श्रुतं अनेकविधं प्रज्ञप्त, तद्यथा-दशवकालिकं तच्च सुप्रतीतं, तथा कल्प्याकल्प्यप्रतिपादकं अध्ययनं कल्प्याकल्प्यं, तथा कल्पनं कल्पः-स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं । तत्पुनर्द्वि भेदं, तद्यथा-'चुल्लकप्पसुर्य | महाकप्पसुर्य' एकं अल्पग्रंथं अल्पार्थ च, द्वितीयं महाग्रंथं महाथं च । शेषाः ग्रंथविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोप्रसिद्धान् | व्याख्यास्यामः, तत्र जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना । सा एव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकं अध्ययनं प्रमादाप्रमाद, तत्र प्रमादस्वरूपं एवं-प्रचुरकर्मेधनप्रभवनिरंतराविध्यातशारीरमानसाऽनेकदुःखहुतवहज्जालाकलापपरीतं अशेपं एव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि च तत् निर्गमनोपाये वीतरागप्रणीतधर्मचिंतामणौ यतो विचित्रकम्मोदयसाचिव्यजनितात् परिणामविशेषात् अपश्यन् इव तत् भयं अवगणय्य विशिष्टपरलोकक्रियाविमुख एव आस्ते जीवः स खलु प्रमादा, तस्य च प्रमादस्य ये हेतवो मद्यादयः तेऽपि प्रमादाः तत्कारणत्वात् , उक्तं च-"मजं विसयकसाया निद्दा विगहा य पंचमी भणिया ।। एवं पंच पमाया जी पाडति संसारे ।।१।" एतस्य पंचप्रकारस्थापि प्रमादय फलं दारुणो विपाकः, एवं प्रतिपक्षद्वारेण अप्रमादस्यापि स्वरूपादयो बाच्याः। 'नंदी'त्यादि सुगमं । सूर्यचर्याप्रज्ञापनं यस्यां ग्रंथपद्धतौ सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषी मंडलं' इति पुरुषःशंकुः पुरुषशरीरं वा तस्मिन् निष्पन्ना पौरुपी 'तत आगत' इत्यण, इयमत्र भावना-सर्वस्यापि वस्तुनो यदा स्वप्रमाणाच्छाया जायते तदा पौरुषी भवति । एतच्च पौरुपीप्रमाणं उत्तरायणस्यांते दक्षिणायनस्त्रादौ च एक दिनं भवति, ततः परं अंगुलस्य अष्टौ एकपष्टिभागा दक्षिणायने बर्द्धते । उत्तरायणे च हसंति, एवं मंडले मंडलेऽन्यान्या पौरुषी यत्र अध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमंडलं,
RAGRAMGANGACANCC