________________
*
नन्दिमूत्रम्
॥१५६॥
समलंकृतम्
*
त्रिलोका एवं त्रैलोक्यं, मेषजादित्वात् खार्थे घ्यण् प्रत्ययः, निरीक्षिताच ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपजिताः । त्रिलोका एव त्रलाक्य, भाजादित्वाद त्रैलोक्येन निरीक्षितमहितपूजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः, । तत्र निरीक्षिताः-मनोरथपरंपरासंपत्तिसंभवविनिश्चयसमुत्थसम्मदविकाशिलोचनैः आलोकिताः महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन अर्चिताः पूजिताः-सुगन्धिपुष्पप्रचुरप्रक्षेपादिना द्रव्यस्तवेन, 'अतीतप्रत्युत्पन्न अनागतज्ञैः 'सर्वज्ञः सर्वदर्शिभिः प्रणीतं-अर्थकथनद्वारेण प्ररूपितं, किं इत्याह-'द्वादशांगी' श्रुतरूपस्य परमपुरुषस्य अंगानि इव अंगानि द्वादशांगानि-आचारादीनि यस्मिन् तत् द्वादशांगं गणो-गच्छो गुणगणो वा अस्यास्ति इति गणी-आचार्यः तस्य पिटकं इव पिटकं, सर्वखं इत्यर्थः, गणिपिटकं, तद्यथा-'आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः । अनंगप्रविष्टं अपि आवश्यकादितत्त्वतोऽर्हत्प्रणीतत्वात् परमार्थतो द्वादशांगातिरिक्तार्थाभावात् च द्वादशांगग्रहणेन गृहीतं द्रष्टव्यम् । इदं च द्वादशांगादि सर्व एव द्रव्यास्तिकनयमतापेक्षया तत् अभिधेयपंचास्तिकायभाववत् नित्यं, खाम्यसंबंधचिंतायां च खरूपेण चिंत्यमानं सम्यक् श्रुतं, स्वामिसंबंधचिंतायां तु सम्यग् दृष्टेः सम्यक् श्रुतं मिथ्यादृष्टेः मिथ्याश्रुतम् । एतदेव श्रुतं परिणामतो व्यक्तं दर्शयति-इत्येतत् द्वादशांगं गणिपिटकं यश्चतुर्दशपूर्वी तस्य सकलं अपि सामायिकादि बिंदुसारपर्यवसानं नियमात् सम्यक् श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावत् वक्तव्यं यावत् अभिन्नदशपूर्विणः-संपूर्णदशपूर्वधरस्य, संपूर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यग् दृष्टेः एव, न मिथ्यादृष्टेः, तथास्वाभाष्यात् , तथा हि-यथा अभव्यो ग्रंथिदेश उपागतोऽपि तथा स्वभावत्वात् न ग्रंथेर्भेद
माधातुमलमेवं मिथ्यादृष्टिः अपि श्रुतं अवगाहमानः प्रकर्षतोऽपि तावत् अवगाहते यावत् किंचित् न्यूनानि दश पूर्वाणि भवंति । दा परिपूर्णानि तु तानि न अवगाढुं शक्रोति, तथाखभावत्वात् इति, 'तेण परं भन्नइ भयणा' अत्र 'तेण' इति 'व्यत्ययो ऽप्यासा' इति
॥१५६॥
******xx