________________
नन्दिसूत्रम्
अवचूरि| समलंकृतम्
॥१५४॥
संज्ञी लभ्यते, न वरं अस्य संचिंतनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयं इति न कालिक्युपदेशेन संज्ञी लभ्यते । यस्य पुनः नास्ति अभिसंधारणपूर्विका करणशक्तिः स प्राणी 'ण' इति वाक्यालंकारे हेतूपदेशेन अपि असंज्ञी लभ्यते, स च पृथिव्यादिः एकेंद्रियो वेदितव्यः, तस्यामिसंधिपूर्वकं इष्टानिष्टप्रवृत्तिनिवृत्त्यसंभवात् , या अपि च आहारादिसंज्ञा पृथिव्यादीनां वर्तन्ते ता अपि अत्यंत अव्यक्तरूपा इति तत् अपेक्षयापि न तेषां संज्ञित्वव्यपदेशः, अन्यत्रापि हेतूपदेशेन संज्ञित्वं आश्रित्य उक्तं 'कृमिकीटपतंगाद्याः समनस्काः जंगमाश्चतुर्भेदाः। अमनस्काः पंचविधाः पृथिवीकायादयो जीवाः । सोऽयं हेतूपदेशेन संज्ञी । अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी ?, दृष्टिः दर्शन-सम्यक्त्वादिवदनं वादः तदुपदेशेन, तदपेक्षया इत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तत् अस्यास्ति स संज्ञी-सम्यग्दृष्टिः तस्य यत् श्रुतं तत् संज्ञिश्रुतं, सम्यग् श्रुतं इति भावार्थः । तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावे संज्ञी लभ्यते, किमुक्तं भवति ? । सम्यग्दृष्टिः क्षायोपश मिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति । स च यथाशक्तिरागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यम् ज्ञानी वा यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्ति अभावतः सम्यग्दृष्टित्वाद्ययोगात् । उक्तं च-तत् ज्ञान एव न भवति यस्मिन् उदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुं ॥ अन्यस्तु मिथ्यादृष्टिः असंज्ञी, तथा | च आह-'असंज्ञिश्रुतस्य' मिथ्याश्रुतस्य क्षयोपशमेन असंज्ञीति लभ्यते, सोऽयं दृष्टिवादोपदेशेन संज्ञी। तदेवं संज्ञिनः त्रिभेदत्वात् श्रुतमपि तत् उपाधिभेदात् त्रिविधं उपन्यस्तम् । अत्राह-ननु प्रथमं हेतुपदेशेन संबी वक्तुं युज्यते, हेतूपदेशेन अल्पमनोलन्धिसंपन्नस्यापि द्वींद्रियादेः संज्ञित्वेन अभ्युपगमात् तस्य च अविशुद्धतरत्वात । ततः कालिक्युपदेशेन हेतूपदेशसंज्ञापेक्षया कालिक्युप
॥१५॥