SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम18 वाक्यालंकारे संज्ञी इति लम्यते । स च गर्मव्युत्क्रांतिकः पुरुषादिः-औपपातिकश्च देवादिनःपर्याप्तियुक्तो विज्ञेयः । तस्य एव त्रिकाल-18 अररि विषयचिन्ताविमर्शादिसंभवात् , एष च प्रायः सर्वमपि अर्थ स्फुटरूपं उपलभते, तथा हि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटं अर्थ समलकृतम् उपलभते तथा एषोऽपि मनोलब्धिसंपन्नो मनोद्रव्यावष्टंभसमुत्थविमर्शवशतः पूर्वापरानुसंधानेन यथावस्थितं स्फुटं अर्थ उपलभते, यस्य पुनः नास्ति ईहा अपोहो मार्गणा गवेषणा चिंता विमर्शः सोऽसंज्ञी इति लभ्यते । स च संमूछिमपंचेंद्रियविकलेंद्रियादिविज्ञेयः, स हि खल्पस्वल्पतरमनोलब्धिसंपन्नत्वात् अस्फुटमस्फुटतरं अर्थ जानाति । तथा हि संज्ञिपंचेंद्रियापेक्षया संमृर्छिमपंचेंद्रियोऽस्फुटं अर्थ जानाति । ततोऽपि अस्फुटं चतुरिंद्रियः, ततोऽपि अस्फुटतरं त्रींद्रियः, ततोऽप्यस्फुटतमं द्वींद्रियः, ततोऽपि अस्फुटतमं एकेंद्रियः, तस्य प्रायो मनोद्रव्यासंभवात् , केवलं अव्यक्तं एव किंचित् अतीव अल्पतरं मनो द्रष्टव्यम् , यद्वशात् आहारादिसंज्ञा अव्यक्तरूपाः प्रादुःपंति, सोज्यं कालिक्युपदेशेन संज्ञी । अथ कोऽयं हेतूपदेशेन संज्ञी ?, हेतुः कारणं निमित्तं इति अनर्थांतरं, उपदेशनं उपदेशः हेतोः 'उपदेशनं हेतूपदेशः तेन, कि उक्तं भवति ? । कोऽयं संज्ञित्वनिबंधनं हेतुं उपलभ्य कालिक्युपदेशेन असंश्यपि संज्ञी इति व्यवह्रियते । आचार्य आह-हेतूपदेशेन संज्ञी यस्य प्राणिनोऽस्ति-विद्यते अभिसंधारण-अव्यक्तेन व्यक्तेन वा विज्ञानेन आलोचनं तत् पूर्विकातत् कारणिका 'करणशक्ति' करणं क्रिया तस्यां शक्तिः-प्रवृत्तिः स प्राणी 'ण' इति वाक्यालंकारे हेतूपदेशेन संज्ञीति लभ्यते । एतदुक्तं भवति-यो बुद्धिपूर्वकं वदेहपरिपालनार्थ इष्टेषु आहारादिषु वस्तुषु प्रवर्त्तते अनिष्टेभ्यश्च निवर्त्तते स हेतूपदेशेन संबी स च ॥१५॥ द्वींद्रियादिः अपि वेदितव्यः, तथा हि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसंचिंतनं न मनोव्यापारमंतरेण संभवति । मनसा च पर्यालोचन न.स.१३ संज्ञा, सा च द्वींद्रियादेः अपि विद्यते, तस्यापि प्रतिनियत इष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् । ततो द्वींद्रियादिः अपि हेतूपदेशेन BAISACROSSESSES
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy