________________
नन्दिवत्रम् ।।१५१।।
प्रतिपत्तव्या, ततस्तेषां अपि लब्ध्यक्षरं संभवति इति न कश्चित् दोषः । तच लब्ध्यक्षरं पोढा, तद्यथा - 'श्रोत्रे ट्रिपलब्धि अक्षर' मित्यादि । इह यत् श्रोत्रंद्रियेण शब्दश्रवणे सति शांखोऽयमित्यादि अक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारि विज्ञानं तत् श्रोत्रंद्रियलब्ध्यक्षरं तस्य श्रोत्रेंद्रियनिमित्तत्वात्, यत्पुनश्चक्षुषा आम्रफलादि उपलभ्य आम्रफलं इत्यादि अक्षरानुविद्धं शब्दार्थपर्यालोचनात्मकं विज्ञानं तत् चक्षुरिंद्रियलब्ध्यक्षरं, एवं शेषेंद्रियलब्ध्य अक्षरमपि भावनीयं तदेतत् लब्ध्यक्षरं । तदेतदक्षरश्रुतं । अथ किं तदनक्षरश्रुतं ? अनक्षरात्मकं श्रुतं अनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतं अनेकविधं - अनेकप्रकारं प्रज्ञप्तं, तद्यथा - उच्छ्रसनं उच्छसितं भावे निष्ठाप्रत्ययः, तथा निःश्वसितं निष्ठीवनं निष्ठयूतं काशनं काशितं चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्दः समुच्चयार्थः । परमस्य व्यवहितः प्रयोगः, सेंटितादिकं च इत्येवं द्रष्टव्यः, तथा 'निस्सिघनं निस्सि घितं, अनुस्वारवत् अनुस्वारं, सानुखारमित्यर्थः, तथा सेंटितादिकं च अनक्षरथुतं, इह उच्वसितादि द्रव्यश्रुतं द्रष्टव्यं ध्वनिमात्रत्वात् भावश्रुतकारणकार्यत्वाच्च । तथा हि-यदाभिसंधिपूर्वकं स विशेषतरं उच्छसितादिकस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्ते तदा तत् तद् स्वसितादि प्रयोक्तर्भावश्रुतस्य फलं श्रोतु भावश्रुतस्य कारणं भवति । ततो द्रव्यश्रुतं इति उच्यते । अथ नवीथाः एवं तर्हि करादिचेष्टाया अपि द्रव्यश्रुतत्वप्रसंगः, सापि हि बुद्धिपूर्विका क्रियमाणा तत् कर्तुः भावश्रुतस्य फलं द्रष्टुव भावश्रुतस्य कारणं इति, नैप दोषः । श्रुतमिति अन्त्रर्थाश्रयणात्, तथा हि-यत् श्रूयते तत् श्रुतं इति उच्यते, न च कारादिचेष्टा श्रूयते ततो न तत्र द्रव्यश्रुतत्वप्रसंगः, उच्छसितादिकं तु श्रूयतेऽनक्षरात्मकं च ततस्तदनक्षरश्रुतमिति उक्तं, तदेतदनक्षरश्रुतं ।
से किं तं सन्निसुर्य ? सन्निसुयं तिविहं पन्नत्तं तं जहा- कालिओवए सेणं हेउवएसेणं दिट्ठिवा ओवरसेणं ।
अवचूरिसमलंकृत म्
॥ १५१ ॥