________________
अवचूरि समलंकृतम्
XSARA
नन्दिसूत्रम् । संज्ञाक्षरं उच्यते । तच्च ब्राहयादिलिपिमेदतो अनेकप्रकारं, तत्र नागरी लिपि अधिकृत्य किंचित् प्रदर्श्यते-मध्ये स्फाटितचुल्ली
सनिवेशसदृशो रेखासंनिवेशविशेषो णकारो वक्रीभूतश्वपुच्छसन्निवेशसदृशो ढकार इत्यादि, तदेतत् संज्ञाक्षर, अथ किं तत् ॥१५॥
व्यंजनाक्षरं? आचार्य आह-व्यंजनाक्षरं अक्षरस्य व्यंजनाभिलापः, तथा हि-व्यज्यतेऽनेन अर्थः प्रदीपेन इव घट इति व्यंजनभाष्यमाणं अकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यंजकत्वात् , व्यंजनं च तदक्षरं च व्यंजनाक्षरं, अथ किं तत् लब्ध्यअक्षरं ?, लब्धि उपयोगः स च इह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते । लब्धिरूपं अक्षरं लब्ध्यक्षरं, भाषश्रुतमित्यर्थः, अक्षरेअक्षरस्य उच्चारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकारादिअक्षरानुविद्धश्रुतलब्धिसमन्वितस्य इत्यर्थः । लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसमनंतरं इंद्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारिशांखोऽयं इत्यादि अक्षरानुविद्धं ज्ञानं उपजायते इत्यर्थः । ननु इदं लब्ध्यक्षरं संज्ञिनां एव पुरुषादीनां उपपद्यते न असंज्ञिनां एकेंद्रियादीनां, तेषां अकारादिवर्णानां अवगमे उच्चारणे वा लब्ध्यसंभवात् न हि तेषां परोपदेशश्रवणं संभवति । येन अकारादिवर्णानां अवगमादि भवेन् अथ च एकेंद्रियादीनां अपि लब्ध्यक्षरं इष्यते, तथा हि-पार्थिवादीनां अपि भावश्रुतं उपवर्ण्यते-'दव्वसुयाभामिवि भावसुयं पत्थिवाईण' इति वचनप्रामाण्यात् । भावश्रुतं च शब्दार्थपर्यालोचनानुसारिविज्ञानं, शब्दार्थपर्यालोचनं च अक्षरमंतरेण न भवति इति, सत्यमेतत् , | किंतु यद्यपि तेषां एकेंद्रियादीनां परोपदेशश्रवणासंभवः तथापि तेषां तथाविधक्षयोपशमभावतः कश्चित् अव्यक्तोऽक्षरलाभो भवति । यद्वशादक्षरानुषक्तं श्रुतज्ञानमुपजायते, इत्थं च एतदंगीकर्तव्यं, तथा हि-तेषां अपि आहारादि अभिलाष उपजायते । अभिलाषश्च प्रार्थना, सा च यदि इदं अहं प्रामोमि ततो भव्यं भवति इत्यादि अक्षरानुविद्वैव, ततः तेषां अपि काचित् अव्यक्ताक्षरलब्धिः अवश्य
X*
॥१५०॥