SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्। अक्चूरिसमलंकृतम् ॥१४९॥ [वंजणक्खरं] अक्खरस्स वंजणाभिलावो, सेत्तं वंजणक्खरं। से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदियलद्धिअक्खरं चक्खिदियलद्धिअक्खरं, घाणिंदियलद्धिअक्खरं, जिभिदियलद्धिअक्खर, फासिंदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं । सेत्तं अक्खरसुयं । से किं तं अणक्खरसुयं, अणक्खरसुयं अणेगविहं पन्नतं, तं जहा ऊससियं नीससियं निच्छदं खासियं च छीअंच। निस्सिंघिअमणुसारं अणक्खरं छेलिआइअं॥१॥ सेत्तं अणक्खरसुयं। अथ किं तत् अक्षरश्रुतं ?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-संज्ञाक्षरं व्यजनाक्षरं लब्ध्यक्षरं च । तत्र 'क्षर संचलने' न क्षरति-न चलति इति अक्षरं-ज्ञानं, तत् हि जीवस्खाभाव्यात् अनुपयोगेऽपि तत्वतो न प्रच्यवते । यद्यपि च सर्व ज्ञानं एवं अविशेषेणाक्षरं प्रामोति तथापि इह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेष, इत्थंभूतभावाक्षरकारणं च अकारादिवर्णजातमतः तदपि उपचारात् अक्षरं उच्यते । ततश्च अक्षरं च तत् , श्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतं इत्यर्थः । तच्च लब्ध्यक्षरं वेदितव्यं, तथा अक्षरात्मकं अकारादिवर्णात्मकं श्रुतं अक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च संज्ञाक्षरं व्यंजनाक्षरं च द्रष्टव्यं, अथ किं तत् संज्ञाक्षरं ?, अक्षरस्य अकारादेः संस्थानाकारः, तथा हि-संज्ञायते अनया इति संज्ञा-नाम तद निबंधनं-तत् कारणं अक्षरं संज्ञाक्षरं संज्ञायाश्च निबंधनं आकृतिविशेषः, आकृतिविशेषे एव नाम्नः करणात् व्यवहणात् च, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः ॥१४९॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy