________________
नन्दिसूत्रम्।
अक्चूरिसमलंकृतम्
॥१४९॥
[वंजणक्खरं] अक्खरस्स वंजणाभिलावो, सेत्तं वंजणक्खरं। से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदियलद्धिअक्खरं चक्खिदियलद्धिअक्खरं, घाणिंदियलद्धिअक्खरं, जिभिदियलद्धिअक्खर, फासिंदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं । सेत्तं अक्खरसुयं । से किं तं अणक्खरसुयं, अणक्खरसुयं अणेगविहं पन्नतं, तं जहा
ऊससियं नीससियं निच्छदं खासियं च छीअंच। निस्सिंघिअमणुसारं अणक्खरं छेलिआइअं॥१॥
सेत्तं अणक्खरसुयं। अथ किं तत् अक्षरश्रुतं ?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-संज्ञाक्षरं व्यजनाक्षरं लब्ध्यक्षरं च । तत्र 'क्षर संचलने' न क्षरति-न चलति इति अक्षरं-ज्ञानं, तत् हि जीवस्खाभाव्यात् अनुपयोगेऽपि तत्वतो न प्रच्यवते । यद्यपि च सर्व ज्ञानं एवं अविशेषेणाक्षरं प्रामोति तथापि इह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेष, इत्थंभूतभावाक्षरकारणं च अकारादिवर्णजातमतः तदपि उपचारात् अक्षरं उच्यते । ततश्च अक्षरं च तत् , श्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतं इत्यर्थः । तच्च लब्ध्यक्षरं वेदितव्यं, तथा अक्षरात्मकं अकारादिवर्णात्मकं श्रुतं अक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च संज्ञाक्षरं व्यंजनाक्षरं च द्रष्टव्यं, अथ किं तत् संज्ञाक्षरं ?, अक्षरस्य अकारादेः संस्थानाकारः, तथा हि-संज्ञायते अनया इति संज्ञा-नाम तद निबंधनं-तत् कारणं अक्षरं संज्ञाक्षरं संज्ञायाश्च निबंधनं आकृतिविशेषः, आकृतिविशेषे एव नाम्नः करणात् व्यवहणात् च, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः
॥१४९॥