________________
नन्दिसूत्रम् ॥१४॥
अवचूरिसमलंकृतम्
प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित् । सर्व इदं आभिनिबोधिकं, मतिज्ञानमित्यर्थः ।६। तदेतद् आभिनिबोधिकं ज्ञानं संप्रति प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति
अथ किं तत् श्रुतज्ञानं ?, आचार्य आहसे किं तं सुयनाण परोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पन्नतं, तं जहा-अक्खरसुयं, अणक्खरसुयं, सन्निसुयं, असन्निसुयं सम्मसुयं, मिच्छसुयं, साइसैंयं, अणाइसुयं सपञ्जवसिअसुंयं, अपज्जवसिअसुयं, गमियसुयं, अगमियसुयं, अंगपविलुसुयं, अणंगपविट्ठसँयं ।।
श्रुतज्ञानं चतुर्दशविध प्रज्ञप्तं, तद्यथा-अक्षरश्रुतं १, अनक्षरश्रुतं २, संज्ञिश्रुतं ३, असंज्ञिश्रुतं ४, सम्यकश्रुतं ५, मिथ्याश्रुतं ६सादि ७, अनादि ८, सपर्यवसितं ९, अपर्यवसितं १०, गमिक ११, अगमिकं १२, अंगप्रविष्टं १३, अनंगप्रविष्टं च १४ । ननु अक्षरश्रुताऽनक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवंति तकिमर्थ तेषां भेदानां उपन्यासः १, उच्यते । इह अव्युत्पन्नमतीनां विशेषावगमसंपादनाय महात्मनां शास्त्रारंभप्रयासो न च अक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रात् अव्युत्पन्नमतयः शेषमेदानवगंतु मीशते, ततो अव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति । साम्प्रतं उपन्यस्तानां भेदानां स्वरूपं अनवगच्छन् आद्यं | भेदं अधिकृत्य शिष्यः प्रश्नं करोति
से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पन्नतं, तं जहा-सन्नखरं-वंजणक्खरं लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स सद्धाणगइ सेत्तं सन्नक्खरं । से किं तं वंजणक्खरं ?
॥१४॥