________________
नन्दिरमा तावत् केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तत् वासितानि शृणोति 18| अवचूरि
मिश्राणि वा, न केवलानि एव उत्सृष्टानि ।।, तथा च आह-भाषत इति भाषा-वाक्शब्दरूपतया उत्सृज्यमाना द्रव्यसंततिः सा च समलंकृतम् ॥१४७॥ वर्णात्मिका मेरीभांकारादिरूपा वा द्रष्टव्या तस्याः समश्रेणयः, श्रेणयो नाम क्षेत्रप्रदेशपंक्तयोऽभिधीयते । ताश्च सर्वस्य एव भाषमाणस्य
षट्सु दिक्षु विद्युते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकांत अनुधावति, भाषासमश्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीः इतो-गतः प्राप्तो भाषासमश्रेणीतः, भाषासमश्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसंबंधिनं मेोदिसंबंधिनं वा शृणोति । यत्तदोनित्याभिसंबंधात् तं मिश्रं शृणोति, उत-सृष्टशब्दव्यभावितापांतरालस्थशब्दद्रव्यमिश्रं शृणोति इति भावार्थः 'विसेढी' त्यादि, अत्र इत इति वर्तते, ततोऽयमर्थः-विश्रेणि पुनः इतः-प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो विश्रेणिः इति उच्यते, शब्दं शृणोति नियमात् पराधाते सति, न अन्यथा, किमुक्तं भवति ?-उत्सृष्टशब्दद्रव्याभिघातेन यानि बासितानि शब्दद्रव्याणि तानि एव केवलानि शृणोति । न कदाचित् अपि उत्सृष्टानि, कुत इति चेदुच्यते, तेषां अनुश्रेणिगमनात् प्रतिघाताभावाच ।५), संप्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दान् अभिधित्सुराह-एते ईहादयः शब्दाः सर्वेऽपि परमार्थतो मतिवाचकाः पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदः अमीषां प्रदश्यते-ईहनं ईहा-सदर्थपर्यालोचनं अपोहन अपोहो निश्चय इत्यर्थः । विमर्शनं विमर्शः-अपायादर्वाक ईहायाः परिणामविशेषः, मार्गणा-अन्वयधर्मान्वेषणं, चः समुच्चये । गवेषणं ॥१४७॥ गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूतार्थालंबनः प्रत्ययविशेषः, मननं मतिः-कथंचित् अर्थपरिच्छित्तौ अपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपशमजन्या
CAMERRORSCRECORECARSA