________________
RSA
दिइह वासनारूपा द्रष्टव्या, अविच्युतिस्मृती तु प्रत्येकं अंतमुहूर्त्तप्रमाणे वेदितव्ये । ३। तत एवं अवग्रहादीनां स्वरूपं अभिधाय अवचूरि
श्रोत्रंद्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह-इह श्रोत्रंद्रियेण शब्दं शृणोति स्पृष्टं-स्पृष्टमात्रं, स्पृष्टं नाम आलिंगितं यथा तनौ समलंकृतम् ॥१४६॥
रेणुसंघातः, अथ कथं स्पृष्टमात्रं एव शब्दं शृणोति ?, उच्यते । इह शेषंद्रियगणापेक्षया श्रोत्रंद्रियं अतिशयेन पटु, तथा गंधादि-18 द्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्मानि प्रभूतानि भाबुकानि च, अत एव सर्वतः तदिद्रियं व्यानुवंति । ततस्तानि स्पृष्टमात्राणि अपि श्रोत्रंद्रियेण ग्रहीतुं शक्यंते, रूपं पुनः पश्यति । अस्पष्टं तु अस्पृष्टं एव, तुः एवकारार्थः, अप्राप्यकारित्वाद चक्षुषः, तथा गंध रसं च । स्पर्श च, चशब्दौ समुच्चयाओं, बद्धस्पृष्टं घाणादिभिः इंद्रियैः विनिश्चिनोति इति व्यागृणीयात् । इह बद्धस्पृष्टं इति स्पृष्टबद्धं इति विज्ञेयं, प्राकृतशैल्या च अन्यथा सूत्रे उपन्यासः, तत्र स्पृष्टं इति आलिंगितं बढ़-तोयवत् आत्मप्रदेशैः आत्मीकृतं आलिंगितानंतरं आत्मप्रदेशः आगृहीतं इत्यर्थः । इह शब्दं उत्कर्षतो द्वादशयोजनेभ्यः आगतं शृणोति, न परतः, शेषाणि तु गंधादिद्रव्याणि प्रत्येक नवभ्यो २ योजनेभ्यः आगतानि घ्राणादिभिः इंद्रियैः गृह्णाति जीवो न परतः, परतः समागतानां द्रव्याणां मंदपरिणामतया इंद्रियग्राह्यत्वा| संभवात् । जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासंख्येयभागात् आगतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोंऽगुलासंख्येयभागवर्ती वेदितव्यः, उत्कर्षतस्तु आत्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यं अधिकृत्य उच्यते । भासुरं द्रव्यं एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यति । यथा पुष्करवरद्वीपाढ़े मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसंक्राती सूर्यबिंब, तथा च उक्त-"लक्खेहि ॥१४६॥ एकवीसाए साइरेगेहि पुक्खरद्धम्मि । उदये पेछंति नरा सूरं उक्कोसए दिवसे ॥१॥" अत्राह-ननु स्पृष्टं शृणोति शब्दं इत्युक्तं, तत्र शब्दप्रयोगोत्सृष्टानि एव केवलानि शब्दद्रव्याणि, शृणोति उत अन्यानि एव तत् भावितानि आहोश्चित् मिश्राणि इति, १ उच्यते, न