________________
नन्दिसूत्रम् || शब्दार्थः । तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातंत्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवंति इति भावार्थः, 5/ अवनि
अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयोगो धारणा च इत्येवं द्रष्टव्यम् । एवकारः क्रमप्रदर्शनार्थः, एवमनेन क्रमेण 'समासेन' ॥१५॥
समलंकर संक्षेपेण चत्वारि आभिनिबोधिकज्ञानस्य भिद्यते इति मेदा विकल्पा अंशा इत्यर्थः। त एव वस्तूनि भवंति, तथाहि-न अनवगृहीतं ईद्यते न अनीहितं निश्चीयते न अनिश्चितं धार्यते इति ॥१॥ इदानीं एतेषां एव अवग्रहादीनां स्वरूपं प्रतिपिपादयिषुराह-अर्थानां-रूपादीनां अवग्रहणं चशब्दो अवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेषविषयत्वापेक्षया खगतमेदवाहुल्यसूचकः, अवग्रहं ब्रुवते इति योगः, 'तथा' इति आनंतर्यविचारणं-पर्यालोचनं अर्थानां इति वर्त्तते, ईहा बुवते, तथा विविधोऽवसायो व्यवसायो-निर्णयः तं च अर्थानामिति वर्त्तते । अपायं ब्रुवते इति संसर्गः, धरणं पुनः अर्थानां अविच्युतिस्मृतिवासनारूपां धारणां ब्रुवते तीर्थकरगणधराः, ॥२॥ इदानीं | अभिहितस्वरूपाणां अवग्रहादीनां कालप्रमाण अभिधित्सुराह-अवग्रहोर्थावग्रहो नैश्वयिक एक समयं यावत् भवति, समयः परमनिकृष्टः कालविभागः, स च प्रवचनप्रतिपादितात् उत्पलपत्रशतव्यतिभेदोदाहरणात् जरत्पशाटिकापाटनदृष्टान्तात् च अवसेयः, व्यंजनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथग् २ अंतर्मुहूर्तप्रमाणौ ज्ञातव्यौ, ईहा च अपायश्च ईहापायौ, मुहूर्तो घटिकाद्वयप्रमाणः, कालविशेषः तखार्द्ध मुहूर्ताद्ध, तुशब्दो विशेषणार्थः, स च एतद्विशिनष्टि-व्यवहारापेक्षया एतमुहर्तार्द्ध इति उच्यते, परमार्थतः पुनः अंतमुहूर्तमयसेयं, अन्ये पुनः एवं पठंति-"मुहुत्तमंतं तु" अत्र मकारोज्लाक्षणिकः, तत एवं द्रष्टव्यं-मुहूर्तातः-मुहूर्तस्य अंतर्मध्य मुहूर्तातः,
॥१४॥ अंतर्मुहूर्तमित्यर्थः । इह 'पारे मध्येऽतः पट्या वा' इति विकल्पेन अंतःशब्दस्य प्राग् निपातो भवति, ततः सूत्रे अंतम्शब्दस्य प्राग्निपातो न विहितः । तथा धारणा कालं-असंख्येयं-पल्योपमादिलक्षणं, संख्येयं च-वर्षादिरूपं यावत् भवति ज्ञातव्या, धारणा च
CSRSRSRSRECHTE
ASSISKAISESSISSEAST