SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् *EX अवचूरि| समलंकृतम् ॥१४२॥ शब्दं शृणुयादिति, किं उक्तं भवति?-शब्दव्यत्यापि व्यक्तं न शृणोति, किंतु सामान्यमा अनिर्देश्यं गृह्णाति इत्यर्थः । इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते । ततोऽतमुहूर्त्तकालेन नियमात् तद्वस्तु विनिश्चिनोति, यदि पुनः वस्तु दुर्योधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमः तत ईहोपयोगात् अच्युतः पुनः अंतर्मुहूर्त कालं ईहते । एवं ईहोपयोगाविच्छेदेन प्रभूतानि अंतर्मुहर्तानि यावत् ईहते । तत ईहानंतरं जानाति-अमुक एषोऽर्थः इति । इदं च ज्ञानं अवायरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'ग' इति वाक्यालंकारेऽपायं प्रविशति । ततः 'से' तस उपगतं-अविच्युत्या सामीप्येन आत्मनि परिणतं भवति, ततो धारणं-वासनारूपां प्रविशति । संख्येयं असंख्येयं वा कालं । 'एवं' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेन अमिलापेन शेषेषु अपि चक्षुः आदिषु इंद्रियेषु अक्ग्रहादयो चाच्याः। नवरं अभिलापविषये 'अव्वत्तं सई सुणिजा' इति अस्य स्थाने 'अन्वत्तं रूपं पासेजा' इति वक्तव्यम् । उपलक्षणं एतत्तेन सर्वत्रापि शब्दस्थाने रूपं इति वक्तव्यं, तद्यथा-'तेणं स्वेत्ति उग्गहिए' इत्यादि तदवस्थं एव, नवरं इह व्यंजनावग्रहो न व्याख्येयः, अप्राप्यकारित्वात् चक्षुषो, घ्राणेंद्रियादिषु तु व्याख्येयः, एवं घ्राणेंद्रियविषये-'अब्बत्तं गंधं अग्धाइजा' इत्यादि वक्तव्यं, जिडेंद्रियविषये, अवत्तं रसं आसाएजा' इत्यादि, स्पर्शनेंद्रियविषये 'अवत्तं फासं पडिसंवेइजा' इत्यादि, यथा च शब्द इति निश्चिते तत् उत्तरकालं उत्तरधर्मजिज्ञासायां किं शांखः? किंवा शाङ्गः? इत्येवंरूपा ईहा प्रवर्तते तथा रूपं इति निश्चिते तदुत्तरकालं उत्तरधर्मजिज्ञासायां किं अयं स्थाणुः किं वा पुरुषः? इत्यादिरूपा प्रवर्तते, एवं घ्राणेंद्रियादिषु अपि समानगंधादीनि वस्तूनि ईहाऽऽलंबनानि वेदितव्यानि । स यथानामकः कोऽपि पुरुषोऽव्यक्तं खमं प्रतिसंवेदयेत् । अव्यक्तं नाम सकलविशेषविकलं अनिर्देश्यं इति प्रज्ञापकः सूत्रकारो वदति, स तु प्रतिपत्ता स्वमादिव्यक्तिविकलं किंचित् अनिर्देश्य एव तदानीं गृह्णाति, तथा तेन ॥१४२॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy