SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ १४१ ॥ न. सू. १२ अवायज्ञानं उपजायते, तथाप्रतिप्राणिसंवेदनात् । तत् निषेधार्थं आह-स यथानामकः कश्चित् जाग्रत् अपि पुरुषोऽव्यक्तं शब्दं शृणुयात्, अव्यक्तमेव प्रथमं शब्दं शृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेन अवग्रहं आह-अर्थावग्रहथ श्रोत्रेंद्रियस्य संबंधी व्यंजनावग्रहमंतरेण न भवति ततो व्यंजनावग्रहोऽपि उक्तो वेदितव्यः । अत्राह - ननु एवं क्रमो न कोऽपि उपलभ्यते, किंतु प्रथमत एव शब्दापायज्ञानं उपजायते, सूत्रेऽपि च अव्यक्तं इति शब्दविशेषणं कृतं, ततः अयं अर्थो व्याख्येयःअव्यक्तं- अनवधारितशांखशार्ङ्गादिविशेषं शब्दं शृणुयादिति इदं च व्याख्यानं उत्तरसूत्रं अपि संवादयति, तेन प्रमात्रा शब्द इति अवगृहीतं, न पुनरेवं जानाति - क एषः शब्दः शांखः शार्ङ्ग इति वा ?, सद्दाइ इति, अत्र आदिशब्दात् रसादिषु अपि अयमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति इत्यादि सर्व संबद्धमेव, तदेतदयुक्तं, सम्यग् वस्तुतत्वापरिज्ञानात्, इह हि यत् किमपि वस्तु निश्रीयते तत्सर्व ईहापूर्वकमनी हितस्य सम्यनिश्चितत्वायोगात्, न खलु प्रथमाक्षिसन्निपाते सति धूमदर्शनेऽपि यावत् किं अयं धूमः ? किंवा मशकवर्तिः इति विमृश्य धूमगतकंठक्षणनकालीकरण सोष्मतादिधर्म्मदर्शनात् सम्यक् धूमं धूमत्वेन विनिश्चिनोति तावत् स धूमो निश्चितो भवति । अनिवर्त्तितशंकतथा तस्य सम्यकू निश्चितत्वायोगात्तस्मात् अवश्यं यो वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयं इति च निश्चयो रूपादिव्यवच्छेदात् ततोऽवश्यं इतः पूर्व ईहया भवितव्यम् । ईहा च प्रथमतः सामान्यरूपेण अवगृहीते भवति, न अनवगृहीते, न खलु सर्वथा निरालंबनं ईहनं कापि भवत् उपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः । सर्वस्यापि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वात्, अन्यथा प्रेक्षावत्ताक्षतिप्रसक्तेः तस्मात् ईहायाः प्रागवग्रहोऽपि नियमात् प्रतिपत्तव्यः । अवग्रहथ शब्दोऽयं इति ज्ञानात् पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एव उपपद्यते, न अन्यः, अत एव उक्तं सूत्रकृता- 'अव्यक्तं अवचूरिसमलंकृतम् ॥१४९॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy