________________
नन्दिसूत्रम् ॥१४०॥
सुगमं 'यावत्' एवमेव इत्यादि, एवमेव उदकविदुभिः इव निरंतरं प्रक्षिप्यमाणैः २ अनंतैः शब्दरूपतापरिणतैः पुद्गलैः यदा तद् व्यंजनं पूरितं भवति तदा हुं करोति हुंकारं मुंचति । तदा तान् पुद्गलान् अनिर्देश्यरूपतया परिच्छिनत्ति इति भावार्थः । अत्र व्यंजनशब्देन उपकरणेंद्रियं शब्दादिपरिणतं वा द्रव्यं तयोः संबंधी वा गृह्यते, न कश्चिद्विरोधः । तत्र यदा व्यंजनं उपकरणेंद्रियं अधिक्रियते तदा पूरितं इति कोऽर्थः ? परिपूर्णभूतं व्याप्तं इत्यर्थः । यदा व्यंजनं द्रव्यं अभिगृह्यते तदा पूरितं इति - प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतं इत्यर्थः यदा तु व्यंजनं द्वयोरपि संबंधो गृह्यते तदा पूरितं इति किं उक्तं भवति ? - तावत् संबंधोऽभूत् । यावति सति ते शब्दादिपुद्गला ग्रहणं आगच्छंति, अर्थावग्रहरूपेण ज्ञानेन तं अर्थ गृह्णति, तं च नामजात्यादिकल्पनारहितं, तथा च आह-न पुनः एवं जानाति क एष शब्दादिः अर्थ इति स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितं अनिर्देश्यं सामान्यमात्रं गृह्णाति इत्यर्थः, एवं रूपसामान्यमात्रग्रहणकारणत्वात् अर्थावग्रहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यंजनावग्रहः, एषा मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहवलप्रवर्त्तितम् । तत ईहां प्रविशति किं इदमिदं इति विमर्श कर्तुं आरभते, 'ततः' ईहानंतरं क्षयोपशमविशेषभावात् जानाति -अमुक एष शब्दादिः इति, ततः एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति । ततोऽपायानंतरं अंतर्मुहूर्त्तकालं यावत् उपगतं भवति - सामीप्येन आत्मनि शब्दादिज्ञानं परिणतं भवति । अविव्युतिः अंतर्मुहूर्त्तकालं यावत् प्रवर्त्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-ततो धारणायां प्रवेशात् ' ं' इति वाक्यालंकारे संख्येयं वा असंख्येयं वा कालं हृदि धारयति, तत्र संख्येयवर्षायुष्कः संख्येयं कालं, असंख्येयवर्षायुष्कस्तु असंख्येयकालं । अत्राह सुप्तमंगीकृत्य पूर्वोक्तप्रकारः सर्वोऽपि घटते, जाग्रतस्तु शब्दश्रवणसमनंतरं एवं अवग्रहः - इहाव्यतिरेकेण
अवचूरिसमलंकृतम्
॥१४०॥