SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् नन्दि सूत्रम् । दृष्टांतेन इयं व्यंजनावग्रहप्ररूपणा, स यथानामको-यथासंभवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्रापि एकारो मागधिकभाषा लक्षणानुसरणात, तच्च प्रागेव अनेकश उक्तं, किंचिदनिर्दिष्टनामानं यथासंभवनामकं पुरुष प्रतिबोधयेत् । कथमियाह-'अमुकामुक ॥१३७॥ इति, तत्र एवं उक्ते सति चोदको ज्ञानावरणकम्मोदयतः कथितमपि सूत्रार्थ अनवगच्छन् प्रश्नं चोदयति इति चोदकः, यथावस्थितं सूत्रार्थ प्रज्ञापयति इति प्रज्ञापको-गुरुः, तं एवं' वक्ष्यमाणेन प्रकारेण अवादीत् । भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, बदनप्रकार एवं दर्शयति-किं एकसमयप्रविष्टाः संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्था-1 वग्रहलक्षणविज्ञानग्राह्यता अधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादपि आरभ्य किंचित् किंचिदव्यक्तग्रहणमागच्छंति इति प्रतिपत्तव्यं ?, 'जं च वंजणोम्गहणमिति भणियं विनाणमबत्तं इति वचनप्रामाण्यात् । असंखेजेत्यादि, आदित आरभ्य प्रतिसमयप्रवेशेन असंख्येयान् समयान् यावत् ये प्रविष्टास्ते असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति-अर्थावग्रहरूपविज्ञानग्राह्यतां उप पर्यते ॥ असंख्येयसमयप्रविष्टेषु तेषु चरमसमये अर्थावग्रहविज्ञानं उपजायते इत्यर्थः । अर्थावग्रहविज्ञानात् च प्राक् सर्वोऽपि व्यंजनाविग्रहः, एषा प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । व्यंजनावग्रहस्य च कालो जघन्यत आवलिकाऽसंख्येयभागः, उत्कर्षतः संख्येया आवलिकाः, ता अपि च संख्येया आवलिका प्राणापानपृथक्त्वकालमाना वेदितव्याः, यत उक्तं-"वंजणावग्गहकालो आवलिया असंखभागतल्लो उ । थोत्रोउकोसो पुण आणापाणुपुहुत्तंत्ति । १।" 'सेतू' इत्यादि निगमनम् । सा इयं प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । से किं तं मल्लगदिट्टतेण । मल्लगदिवतेण से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय RECORPORATE ॥१३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy