________________
अवचूरिसमलंकृतम्
नन्दि सूत्रम् ।
दृष्टांतेन इयं व्यंजनावग्रहप्ररूपणा, स यथानामको-यथासंभवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्रापि एकारो मागधिकभाषा
लक्षणानुसरणात, तच्च प्रागेव अनेकश उक्तं, किंचिदनिर्दिष्टनामानं यथासंभवनामकं पुरुष प्रतिबोधयेत् । कथमियाह-'अमुकामुक ॥१३७॥
इति, तत्र एवं उक्ते सति चोदको ज्ञानावरणकम्मोदयतः कथितमपि सूत्रार्थ अनवगच्छन् प्रश्नं चोदयति इति चोदकः, यथावस्थितं सूत्रार्थ प्रज्ञापयति इति प्रज्ञापको-गुरुः, तं एवं' वक्ष्यमाणेन प्रकारेण अवादीत् । भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, बदनप्रकार एवं दर्शयति-किं एकसमयप्रविष्टाः संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्था-1 वग्रहलक्षणविज्ञानग्राह्यता अधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादपि आरभ्य किंचित् किंचिदव्यक्तग्रहणमागच्छंति इति प्रतिपत्तव्यं ?, 'जं च वंजणोम्गहणमिति भणियं विनाणमबत्तं इति वचनप्रामाण्यात् । असंखेजेत्यादि, आदित आरभ्य प्रतिसमयप्रवेशेन असंख्येयान् समयान् यावत् ये प्रविष्टास्ते असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छंति-अर्थावग्रहरूपविज्ञानग्राह्यतां उप
पर्यते ॥ असंख्येयसमयप्रविष्टेषु तेषु चरमसमये अर्थावग्रहविज्ञानं उपजायते इत्यर्थः । अर्थावग्रहविज्ञानात् च प्राक् सर्वोऽपि व्यंजनाविग्रहः, एषा प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । व्यंजनावग्रहस्य च कालो जघन्यत आवलिकाऽसंख्येयभागः, उत्कर्षतः
संख्येया आवलिकाः, ता अपि च संख्येया आवलिका प्राणापानपृथक्त्वकालमाना वेदितव्याः, यत उक्तं-"वंजणावग्गहकालो आवलिया असंखभागतल्लो उ । थोत्रोउकोसो पुण आणापाणुपुहुत्तंत्ति । १।" 'सेतू' इत्यादि निगमनम् । सा इयं प्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा ।
से किं तं मल्लगदिट्टतेण । मल्लगदिवतेण से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय
RECORPORATE
॥१३॥