SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् Cos अवचूरिसमलंकृतम् ॥१३५॥ स्थिरतया पुनः, पुनः स्पष्टतरं अवबुध्यमानस्य या बोधपरिणतिः सा बुद्धिः। तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषात् एव अवधारितार्थविषय एव तीव्रतरधारणाहेतुः बोधविशेषः । ‘से त्वं अवाए' इति निगमनम् ॥ से किं तं धारणा ? धारणा छब्विहा पन्नत्ता, तं जहा सोइंदियधारणा, चक्खिदियधारणा, घाणिदियधारणा, जिभिदियधारणा, फासिंदियधारणा, नोइंदियधारणा। तस्स णं इमं एगहिआ नाणाघोसा नाणावंजणा पंच नामधिज्जा पन्नत्तं, तं जहा धारणा साधारणा ठवणा' पइट्ठा कोट्टे । सेत्तं धारणा। 'से किं तं' इत्यादि सुगम, यावत् धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिंतायां पुनः भिन्नानि, तत्र अपायानंतरं अवगतस्य अर्थस्य अविच्युत्याऽन्तर्मुहूर्त कालं यावत् धरणं धारणा, ततस्तं एव अर्थ उपयोगात् च्युतं जघन्यतः अंतमुहूर्तात् उत्कर्षतोऽसंख्येयकालात परतो यत्स्मरणं सां धारणा, तथा स्थापनं स्थापना, अपायावधारितस्य अर्थस्य हृदि स्थापनं, वासना इत्यर्थः, अन्ये तु धारणास्थापनयोः व्यत्यासेन स्वरूपं आचक्षते । तथा प्रतिष्ठा [प] नं प्रतिष्ठा-अपायावधारितस्य एव अर्थस्य हृदि प्रभेदेन प्रतिष्ठापनं इत्यर्थः । कोष्ठ इव कोष्ठोऽविनष्टसूत्रार्थधारणं इत्यर्थः । सा इयं धारणा ॥ सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थ आहउग्गहे इकसमइए, अन्तोमुहुत्तिआ ईहा, अन्तोमुहत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज वा कालं । एवं अट्ठावीसइविहस्स आभिणिबोहियनाणस्स बंजणुग्गहस्स परूवणं करिस्सामि। पडिबोहगदिद्वंतेण । मल्लग दिटुंतेण य । से किं तं पडिबोहगदिलुतेण ? पडिबोहगदिढतेण-से जहा नामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे सरकर ॥१३५॥ SEARCESS%
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy