________________
वन्दिसूत्रम् ।।१३२ ।।
अत्थुग्गहे । चखिदियअत्थुग्गहे । घाणिदिय अत्युग्गहे । जिमिअत्युग । फासिंदियअत्थुग्गहे । नोइंदिय अत्थुग्गहे । तस्स णं इमं एगहिआ नाणाघोसा नाणावंजणा पंच नामधिजा भवति, तं जहा -ओगेण्हणयी उवधारणयी सवणया अवलंबण्या मेहा । सेतं उग्गहे ।
अर्थावग्रहः पविधः प्रज्ञप्तः, तद्यथा - श्रोत्रेंद्रियार्थावग्रह इत्यादि, श्रोत्रंद्रियार्थावग्रहो व्यंजनावग्रहोत्तरकालं एकसामयिकं अनिर्देश्यसामान्यरूपार्थाऽवग्रहणं श्रवेंद्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेंद्रियार्थावग्रहेष्वपि वाच्यं चक्षुर्मन सोस्तु व्यंजनावग्रहो न भवति, ततस्तयोः प्रथमं एव स्वरूपं द्रव्यगुणक्रियाविकल्पनातीतं अनिर्देश्यसामान्यमात्ररूपार्थाऽवग्रहणं अर्थावग्रहोञ्वसेयः ॥ तत्र नोईद्रियं मनः तच्च द्विधा द्रव्यरूपं भावरूपं च तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनः प्रायोग्यवर्गणादलिकं आदाय मनस्त्वेन परिणामितं तत् द्रव्यरूपं मनः, तथा द्रव्यमनोऽवष्टंभेन जीवस्य यो मननपरिणामः स भावमनः, तत्र इह भावमनसा प्रयोजनं तत्ग्रहणे हि अवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोतरेण भावमनसोऽसंभवात् भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थ केवलिनः, तत उच्यते - भावमनसा इह प्रयोजनं, तत्र नोइंद्रियेण - भावमनसाऽर्थावग्रहो द्रव्येंद्रियव्यापारनिरपेक्षो घटाद्यर्थस्वरूप परिभावनाऽभिमुखः प्रथमं एकसामयिको रूपाद्यूर्द्धाऽऽकारादिविशेषचिंता विकलोऽ निर्देश्यसामान्यमात्रर्चितात्मको बोधो नोइंद्रियार्थावग्रहः ॥ ' तस्य' सामान्येन अवग्रहस्य 'णं' इति वाक्यालंकारे 'अमूनि' वक्ष्यमाणानि एकार्थिकानि नानाघोषा - उदा
वचूरिसमलंकृतम्
॥१३२॥