SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१३१॥ सोइंदियवंजणुग्गहे, घाणेंदियवंजणुग्गहे, जिभिदियबंजणुग्गहे, फासिंदियवंजणुग्गहे । सेत्तं बंजणुग्गहे । अथ कोऽयं व्यंजनावग्रहः १, आचार्य आह-व्यंजनावग्रहः चतुर्विधः प्रज्ञप्तः, तद्यथा - 'श्रोत्रंद्रियव्यंजनावग्रह' इत्यादि, अत्र आह - सत्सु पंचसु इंद्रियेषु षष्ठे च मनसि कस्मात् अयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इह व्यंजनं उपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं संबंध उच्यते, संबंधचतुर्णां एव श्रोत्रंद्रियादीनां न नयनमनसोः, तयोः अप्राप्यकारित्वात्, आह-कथं अप्राप्यकारित्वं तयोः अवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि यदि प्राप्तं अर्थ चक्षुः मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेंद्रियं स्रक्चंदनादिकं अंगारादिकं च प्राप्तमर्थं परिच्छिदन् तत्कृतानुग्रहोपघातभाग् भवति । तथा चक्षुः मनसी अपि भवेतां, विशेषाभावात् न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्यते एव चक्षुषो विषयकृतौ अनुग्रहोपघातौ, तथाहि - घनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं कर प्रसरमभिसर्पयन्तमंशुमालिनमनवरतं अवलोकमानस्य भवति चक्षुषो विघातः, शशांककर कदंब कं यदि वा तरंगमालोपशोभितं जलं तरुमंडलं च शाड्वलं निरंतरं निरीक्ष्यमाणस्य च अनुग्रहः, तदेतदपरिभावित भाषितं यतो न ब्रूमः सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किं त्वेतावदेव वदामो-यदा विषयं विषयतया चक्षुरवलंबते तदा तत्कृतावनुग्रहोपघात तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः । अथ कतिविधोऽयमर्थावग्रहः १, सूरिराह से किं तं अत्युग्गहे ? अत्थुग्गहे छिवहे पन्नत्ते तं जहा- सोइंदिय अवचूरिसमलंकृतम् ॥१३१॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy