________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
॥१३०॥
त्यागाभिमुखः-प्रायो अत्र मधुरत्वादयः शंखादिधर्मा दृश्यते न खरकर्कशनिष्ठुरतादयः शाङ्गादिशब्दधा इति एवंरूपो मतिविशेष ईहा, तथा तस्य एव अवगृहीतस्येहितस्थार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शांख एव अयं, शाङ्ग एव अयं इत्यादिरूपोऽवधारणास्मकः प्रत्ययोज्वाय इत्यर्थः । तस्य एव अर्थस्य निर्णीतस्य धारणं धारणा, सा च त्रिधा-अविच्युतिः वासना स्मृतिश्च, तत्र तदुपयोगात् अविच्यवनं अविच्युतिः, सा च अंतर्मुहर्चप्रमाणा, ततः तया आहितो यः संस्कारः सा वासना, सा च संख्येयमसंख्येयं वा कालं यावत् भवति । ततः कालांतरे कुतश्चित्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यत् ज्ञानं उदयते-तत् एव इदं यन्मया प्रार उपलब्धं इत्यादिरूपं सा स्मृतिः । उक्तं च-"तदनंतरं तदत्याविच्चवणं जो उ वासणाजोगो । कालांतरे जं पुण अणुसरणं धारणा | सा उ ॥१॥" एताश्च अविच्युतिवासनास्मृतयो धरणलक्षणसामान्याऽन्वर्थयोगाद्धारणाशब्दवाच्याः॥
अथ कोऽयं अवग्रहः १, सरिराह-अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यंजनावग्रहश्च, तत्र अर्थ्यते इत्यर्थः अर्थस्थावग्रहणं अर्थावग्रहः सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणं एकसामयिक इत्यर्थः, तथा व्यज्यतेऽनेन अर्थः प्रदीपेनेव घट इति व्यंजनं, तच्च उपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं संबंधः, संबंधे सति सोऽर्थः शब्दादिरूपः | श्रोत्रादिइंद्रियेण व्यंजितुं शक्यते, न अन्यथा, ततः संबंधो व्यंजनं, व्यंजनेन-संबंधेन अवग्रहणं संबध्यमानस्य शब्दादिरूपस्यार्थस्य | अव्यक्तरूपः परिच्छेदो व्यंजनावग्रहः। अथवा व्यज्यंते इति व्यंजनानि, 'कृत् बहुलं' इति वचनात् कर्मण्यनट्, संप्रति तु व्यंजनावग्रहात् ऊर्दू अर्थावग्रह इति क्रमं आश्रित्य प्रथमं व्यंजनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं करोति
से किं तं वंजणुग्गहे ? वंजणुग्गहे चउबिहे पन्नत्ते, तं जहा
RS
NEERIES RSSC