________________
नन्दिसूत्रम्। ४
SC-CA
उत्तरगुणरूपरत्नविभूषणविकला शोभते ॥ १२ ॥
नियमुच्छियकणयसिलायलुजलजलतचित्तकूडस्स। नंदणवणमणहरसुरभिसीलगंधुदुमायस्स ॥१३॥ #अवचूरीस
नियम इत्यादि, इह उच्छ्रितशब्दस्य व्यवहितप्रयोगः, ततश्चायं अर्थः-नियमा एव इन्द्रियदमरूपाः कनकशिलातलानि तेषु मामलङ्कृतम्। उच्छ्रितानि उज्जवलानि ज्वलन्ति चित्तानि एव कूटानि यस्मिन् स तथा तस्य, इह मंदरगिरौ कूटानां उच्छ्रितत्वं उज्वलत्वं | भासुरत्वं च सुप्रतीतं , संघमन्दरगिरिपक्षे तु चित्तरूपाणि कूटानि उच्छ्रितानि अशुभाध्यवसायपरित्यागात् , उज्वलानि प्रतिसमयं कर्ममलविगमात् , ज्वलंति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् । तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तत् नन्दनं वनं-अशोकसहकारादिपादपवृन्द, नन्दनं च तत् वनं च नन्दनवनं, लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनोहरति इति मनोहरं, लिहा दिम्यः' इत्यच् प्रत्ययः (५.१.२०)। नन्दवनं च तत् मनोहरं च नन्दनवनमनोहरं तस्य, सुरभिस्वभावो यो गंधस्तेन 'उद्धमायः' आपूर्णः उद्धमायशब्द आपूर्णपर्यायः तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-संतोषः, तथाहि तत्र स्थिताः साधवो नन्दन्ति, तत्त्वविविधामपौषध्यादिलन्धिसंकुलतया मनोहरं तस्य, सुरभिः शीलं एव गंधम्तेन व्याप्तम्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ १३ ॥
जीवदयासुन्दरकंदरुद्धरियमुणिवरमईदइन्नस्स । हेउसयधातुपगलंनरयणदित्तोसहिगुहस्स ॥ १४ ॥ जीवदया इत्यादि, जीवदया एव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कंदराणि तपस्विनामावासभूतत्वात् तथा च लोकेऽपि
-CCOURS
॥ ११॥