SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१२॥ अवचूरिसमलंकृतम् OROSPECAREERS कृत्वा समाहूय स नगरस्य आत्मनो अन्यत्र संक्रामणं सा पारिणामिकी बुद्धिः ॥५॥ 'साहू य नंदिसेणेति साधोः श्रेणिकपुत्रस्य नंदिषणस्य स्खशिष्यस्य व्रतं उज्झितुकामस्य स्थिरीकरणाय भगवत् वर्द्धमानस्वामिवंदननिमित्तं चलितमुक्ताभरणश्वेतांबरपरिधानरूपराम| गीयकविनिर्जितामरसुंदरीकखांतःपुरदर्शनं कृतं सा पारिणामिकी बुद्धिः। स हि नंदिषेणस्य तादृशमंतःपुरं नंदिषेणपरित्यक्तं दृष्ट्वा दृढतरं संयमे स्थिरीबभूव, ॥६॥ 'धणदत्तेत्ति धनदत्तस्य सुंसुमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालं अपेक्ष्य यत् पललभ क्षणं सा पारिणामिकी बुद्धिः॥७॥ 'सावगे'त्ति कोऽपि श्रावका प्रत्याख्यातपरस्त्रीसंभोगः कदाचित् निजजायासखीं अवलोक्य तत्र 5. अतीव अध्युपपन्नः, तं च तादृशं दृष्ट्वा तत् भार्या अचिंतयत् । नूनं एष यदि कथं अपि एतस्मिन्नध्यवसाये वर्तमानो म्रियते तर्हि नरकगति तिर्यग्गतिं वा याति तस्मात् करोमि कंचित् उपायमिति, तत एवं चिंतयित्वा स्वपति अभाणीत्-मा त्वं आतुरी भूः, अहं ते तां विकालवेलायां संपादयिष्यामि, तेन प्रतिपन्न, ततो विकालवेलायां ईपदंधकारे जगति प्रसरति खसख्या वस्त्राणि आभरणानि परिधाय सा स्वसखीरूपेण रहसि तं उपासृपत् । स च सेयं मद्भार्यासखीति अवगम्य तां परिभुक्तवान् , परिभोगे च कृतेऽपगतकामाध्यवसायोस्मरत् च प्रागू गृहीतं व्रतं, ततो व्रतभंगो मे समुदपादि इति खेदं कत्तु प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास । ततो मनाक् स्वस्थीवभूव, गुरुपादमूलं च गत्वा दुष्टमनःसंकल्पनिमित्तव्रतभंगविशुद्ध्यर्थं प्रायश्चित्तं प्रतिपन्नवान्, श्राविकायाः पारिणामिकी बुद्धिः॥८॥ 'अमचे'त्ति वरधनुपितुः अमात्यस्य ब्रह्मदचकुमारविनिर्गमनाय यत् सुरंगाऽऽखननं, सा पारिणामिकी | बुद्धिः॥९॥१२॥ 'खमए'ति क्षपकस्य कोपवशेन मृत्वा सर्पत्वेन उत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रव्रज्याप्रतिपत्तौ चतुरः क्षपकान् पर्युपासीनस्य योजनवेलायां तैः क्षपकैः पात्रे निष्ठयत निक्षेपेऽपि क्षमाकरणं आत्मनिंदनं क्षपकगुणप्रशंसा सा पारिणामिकी ॥१२७॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy