SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ नन्दिमूत्रम् ॥ १२६॥ मिकी नाम ॥ ११ ॥ अस्या अपि शिष्यगणहिताय उदाहरणैः स्वरूपं प्रकटयति- 'अभए' इत्यादि गाथात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रंथांतरेभ्योऽवसेयानि, इह तु अक्षरयोजनामात्रं एव केवलं करिष्यते । तत्र 'अभए 'ति अभयकुमारस्य यत् चंडप्रद्योतात वरचतुष्टयमाणं यत् चंडप्रद्योतं बद्धा नगरमध्येन आरटंतं नीतवान् | इत्यादि सा पारिणामिकी बुद्धिः ॥ १ ॥ 'सेट्ठि'त्ति, काष्ठश्रेष्ठी, तस्य यत् स्वभार्यादुश्चरितं अवलोक्य प्रवज्याप्रतिपत्तिकरणं यच्च स्वपुत्रे राज्यं अनुशासति वर्षाचतुर्मासकानंतरं विहारक्रमं कुर्वतः पुत्रसमक्षं धिगूजातीयैः उपस्थापिताया द्व्यक्षरिकाया आपन्नसच्चायाः त्वदीयोऽयं गर्भः त्वं च ग्रामांतरं प्रति चलितः ततः कथं अहं भविष्यामि इति वदत्याः प्रवचनाऽयशोनिवारणाय यदि मदीयो गर्भः ततो योनेः विनिर्गच्छतु नो चेत् उदरं भित्त्वा विनिर्गच्छतु इति यत् शापप्रदानं, सा पारिणामिकी बुद्धिः ॥ २ ॥ 'कुमारे' चि मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्त्तमानस्य कदाचित् गुणन्यां गतस्य प्रमदादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽञ्जीर्णरोगप्रादुर्भावात् अतिपूतिगंधि वातकार्यं तत्सृजतो या उद्गता चिंता, यथा अहो ! तादृशानि अपि मनोहराणि कणिक्कादीनि द्रव्याणि शरीरसंपर्कवशात् पूतीगंधानि जातानि तस्मात् धिग् इदं अशुचि शरीरं, धिग् व्यामोहो, यत् एतस्यापि शरीरस्य कृते जंतुः पापानि आरभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत तस्य शुभशुभतराध्यवसाय भावतो अंतर्मुहूर्त्तेन केवलज्ञानोत्पत्तिः ॥ ३ ॥ 'देवी' चि देव्याः पुष्पवती - अभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेन उत्पन्नाया यत् पुष्पचूलाभिधानायाः स्वपुत्र्याः स्वमे नरकदेव लोकप्रकटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः ॥ ४ ॥ 'उदिओदए 'चि, उदितोदयस्य राज्ञः श्रीकांतापतेः पुरिमतालपुरे राज्यं अनुशासतः श्रीकांतानिमित्तं वाराणसीवास्तव्येन धर्म्मरुचिना राज्ञा सर्ववलेन समागत्य निरुद्धस्य प्रभूतजन परिक्षयभयेन यत् वैश्रवणं उपवासं अवचूरिसमलंकृतम् ॥ १२६॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy