________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
।।१२५॥
SEXSHISISSARIS***
अभएं सिद्धि कुमारे देवी' उदिओदए हवइ राया ॥ साहू य नंदिसेणे घणदत्ते सावर्ग अमच्चे ॥१२॥ खमएँ अमञ्च पुत्ते चाणक्के चेव थूलभद्दे अ॥ नासिकसुंदरिनंदे वइरे" परिणामबुद्धीए ॥१३॥ चलणाहणं आमंडे मणीय सप्पे य खग्गिं धूभिंदे ॥ परिणामियबुद्धीए एवमाई उदाहरणा ॥ १४ ॥
से तं असुअनिस्सियं। 'अणुमाण' इत्यादि, लिंगात लिंगिनि ज्ञानं अनुमानं, तच्च स्वार्थ अनुमानं इह द्रष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः, परार्थानुमानं इत्यर्थः, अथवा ज्ञापकं अनुमानं, कारकं हेतुः, दृष्टांतः प्रतीतः, आह-अनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्य उपन्यासेन, उच्यते, अनुमानस्य क्वचित् दृष्टांतमंतरेण अन्यथानुपपत्तिग्राहकप्रमाणवलेन प्रवृत्तेः, यथा सात्मकं यावत् जीवच्छशरीरं, प्राणादिमचाऽन्यथानुपपत्तेः, न च दृष्टांतोऽनुमानांग, यत उक्तं "अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किं ?" ततः पृथग् दृष्टांतस्य उपादानं, तत्र साध्यस्य उपमाभूतो दृष्टांतः, तथा च उक्तं-"यः साध्यस्य उपमानभूतः, स दृष्टांत इति कथ्यते ।" अनुमानहेतुदृष्टांतः साध्यं-अर्थ साधयति इति अनुमानहेतुदृष्टांतसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तत् विपाके परिणामः-पुष्टता यस्याः सा क्योविपाकपरिणामा, तथा हितं-अभ्युदयो निःश्रेयसं-मोक्षः ताभ्यां फलवती, [] द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः पारि
॥१२५॥