________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
१२४॥
| भणसि तर्हि सर्वान् अपि अधोमुखान् पातयामि यद्वा ऊर्ध्वमुखान् अथवा पार्थस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानपि अधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽपि अधोमुखाः मुद्गाः, जातो महान् विस्मयः चौरस्य, प्रशंसितं भूयो- भूयः तस्य कौशलं अहो विज्ञानमिति, वदति चौरो-यदि न अधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वां अहं अमारयिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः ।। २॥ 'कोलिय'ति कौलिकः-तंतुवायः, स मुष्ट्या तंतूनादाय जानाति एतावद्भिः कंडकैः पटो भविष्यति ॥३॥ 'डोवेत्ति दर्वी वर्द्धकिः जानाति एतावत् अत्र मास्यति इति ॥ ४॥ 'मुत्ति'त्ति मणिकारो मौक्तिकं आकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पततो मौक्तिकस्स रंध्रे स प्रविशति इति ।। ५ ॥ 'घय'त्ति घृतविक्रयी खविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटे स्थितोऽवस्तात् कुंडिकानालेऽपि घृतं प्रक्षिपति ॥ ६ ॥ 'पवय'त्ति प्लबकः, स च आकाशस्थितानि करणानि करोति ॥७॥'तुण्णाए ति सीवनकर्मकर्ता, स च स्वविज्ञानप्रकर्षप्राप्तः तथा सीवति यथा प्रायः केनापि न लक्ष्यते ॥८॥ वडईति वर्द्धकिः, स च सविज्ञानप्रकर्षप्राप्ती अमित्वापि देवकुलरथादीनां प्रमाणं जानाति ॥९॥ 'पूयइति आपूपिका, स च अमित्वापि आपूपानां दलस्य मानं जानाति ॥१०॥ 'घड'त्ति घटकारः स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव प्रमाणयुक्तां मृदं गृह्णाति ॥ ११ ॥ 'चित्तकरेंत्ति चित्रकारः, स च रूपकभूमिकां अमित्वापि रूपकप्रमाणं जानाति तावन्मानं वा वर्ण कुंचिकया गृह्णाति यावन्मात्रेण प्रयोजनं इति ।। १२ । उक्ता कर्मजा बुद्धिः। संप्रति पारिणामिक्या लक्षणं आह
अणुमाणहे उदिटुंतसाहिआ वयविवागपरिणामा । हिअनिस्सेअसफलवई वुद्धी परिणामिआ नाम ॥ ११ ॥
॥१२॥