SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१२३॥ हेरन्निए करिस कोलियँ डोवे में मुक्तिं घर्यं पवएँ ॥ तुष्णाएं हुई ये पूईं घडे चित्तकारे य ॥ ९ ॥ 'उवओग' इत्यादि उपयोजनं उपयोगो - विवक्षितकर्म्मणि मनसोऽभिनिवेशः सारः तस्य एव विवक्षितकर्म्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्म्मपरमार्था इत्यर्थः, तथा कर्म्मणि प्रसंगोऽभ्यासः परिघोलनंविचारस्ताभ्यां विशाला-विस्तारं उपगता कर्म्मप्रसंगपरिघोलनविशाला, तथा साधुकृतं - सुष्ठुकृतं इति विवदद्भयः (विद्वद्भिः १) प्रशंसा साधुकारः तेन युक्तं फलं साधुकारफलं तत्-वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः फलं इत्यर्थः, सा तथा कर्म्म समुत्था भवति बुद्धिः || ९ || अस्य अपि विनेयजनानुग्रहार्थं उदाहरणैः स्वरूपं दर्शयति- 'हेरणिए' इत्यादी पथ्यर्थे सप्तमी, ततोऽयमर्थः- हैरण्यकोहैरण्यकस्य कर्म्मा बुद्धि:, एवं सर्वत्रापि योजना कार्या, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषेण रूपकं यथावस्थितं परीक्ष्यते ॥ १ ॥ 'करिसग'ति अत्र उदाहरणं, कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान् ततः प्रातरलक्षितः तस्मिन् एव गृहे समागत्य जनेभ्यः प्रशंसां आकर्णयति, तत्र एकः कर्षकोऽब्रवीत् किं नाम शिक्षितस्य दुष्करत्वं ?, यद्येन सदैव अभ्यस्तं कर्म्म स तत् प्रकर्षप्राप्तं करोति, न अत्र विस्मयः, ततः स तस्कर एतत् वाक्यं अमर्षवैश्वानरसंधुक्षणसमं आकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुष-कोऽयं कस्य वा सत्क इति १, ज्ञात्वा च तं अन्यदा क्षुरिकां आकृष्य गतः क्षेत्रे तस्य पार्श्वे, रे ! मारयामि त्वां संप्रति, तेन उक्तं किं इति ?, सोऽब्रवीत् त्वया तदानीं न मम खातं प्रशंसितं इति कृत्वा, सोऽब्रवीत् सत्यं एतत्, यो यस्मिन् कर्म्मणि सदैव अभ्यासपरः स तत् विषये प्रकर्षवान् भवति, तत्र अहमेव दृष्टान्तः, तथाहि अमून् मुद्गान् हस्तगतान् यदि अवचूरिसमलंकृतम् ॥१२३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy