________________
नन्दिसूत्रम्
॥१२२॥
चाकृतपुण्योऽचिंतयद्यथा नास्मात् आपत्समुद्रात् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्तुमारब्धं, परं जीर्णदंडिवस्त्रखंडेन गले पाशो बद्धः, तच्च दंडिवस्त्रखंड अतिदुर्बलमिति त्रुटितं, ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपात, सोऽपि च नटमहत्तरः तद्भाराक्रांतगलप्रदेशः पंचत्वमगमत् ततो नटैरपि स प्रतिगृहीतः गताः प्रातः सर्वेऽपि राजकुले, कथितः सर्वैः अपि स्वस्वव्यतिकरः, ततः कुमारामात्येन स वराकः पृष्टः, सोऽपि दीनवदनोऽवादीत् - देव ! यत् एते जुवते, तत् सर्वं सत्यमिति ततस्तस्य उपरि संजातत कृपः कुमारामात्योऽवादीत् - एष बलीवर्दी तुभ्यं दास्यति, तब पुनः अक्षिणी उत्पाटयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुर्भ्यामवलोकितौ बलिवद, यदि पुनः स्वया चक्षुर्भ्यां नावलोकितौ स्यातां तदा एषोऽपि स्वगृहं न यायात्, नहि यो यस्मै यस्य समर्पणायागतः, स तस्यानिवेदने समर्पणीयं एवमेव मुक्त्वा स्वगृहं याति तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽवं तुभ्यं दास्यति, तव पुनः एष जिह्वां छेत्स्यति, यदा हि त्वदीय जिह्वया उक्तं- एनं अवं दंडेन ताडय इति, तदाऽनेन दंडेन आहतोऽश्वो, न अन्यदा, तत एष दंडेन आहंता दंड्यते तव पुनः न जिह्वा इति कोऽयं नीतिपथः ?, तथा नटान् प्रत्याह-अस्य पार्श्वे न किमपि अस्ति ततः किं दापयामः ?, एतावत् पुनः कारयामः - एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथा एष वृक्षे गलपाशेन आत्मानं बद्धा मुक्तवान् तथात्मानं मुंचतु इति, ततः सर्वैः अपि स मुक्तः । कुमारामात्यस्य वैनयिकी बुद्धिः ॥ ३ ॥ उक्ता वैनयिकी बुद्धिः ॥ ८ ॥ कर्म्मजाया बुद्धेः लक्षणं आह
उवओगदि सारा कम्मपसंग परिघोलणविसाला ॥ साहुकारफलवई कम्मसमुत्था हवइ बुद्धि ॥ ८ ॥
अवचूरिसमलंकृतम्
॥१२२॥