________________
नन्दि सूत्रम्
॥१२१॥
आचार्येण ज्ञातं - सर्व मम विरक्तं केवलं एते कुमारा मम भक्तिवशात् ज्ञापयंति, ततो यथा न लक्ष्यते तथा पलायामास कुमाराणां आचार्यस्य च वैनयिकी बुद्धिः || १२ || 'निव्वोदणं' ति कापि वणिग्भार्या, चिरं प्रोषिते भर्तरि दास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषं इति, ततस्तया समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वौ अपि संभोगाय द्वितीयभूमिकां आरूढौ, मेघश्र वृष्टिं कर्तु आरब्धवान्, ततस्तेन तृषापीडितेन पुरुषेण नीत्रोदकं पीतं, तदपि च त्वग्-विषभुजंग संस्पृष्टं इति तत्पानेन पंचत्वं उपगतः, ततस्तथा वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः प्रभाते दृष्टो दंडपाशिकैः, परिभावितं सद्यः कृतं तस्य नखादिकर्म्म, ततः पृष्टाः सर्वेऽपि नापिता:- केन इदं भो कृतं अस्य नखादिकं कर्म इति ?, तत एकेन नापितेन उक्तंमया कृतं अमुकाभिधवणिग्भार्यादासचेट्यादेशेन, ततः सा पृष्टा - सापि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास दंडपाशिकानां वैनयिकी बुद्धिः ||२|| 'गोणे घोडगपडणं च रुक्खाओ' कोऽपेि अकृतपुण्यो यद्यत्करोति तत्तत्सर्वं आपदे प्रभवति, ततोऽन्यदा मित्रबलीवर्दी याचित्वा हलं वाहयति, अन्यदा च विकालवेलायां तो आनीय वाटके क्षिप्त, स च वयस्यो भोजनं कुर्वन् आस्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्यावलोकितौ इति स स्वगृहं गतः । तौ च बलीवद वाटकात् निःसृत्य अन्यत्र गतौ, ततोऽपहृतौ तस्करैः, स च बलीवर्दखामीतं अकृतपुण्यं वराकं बलीवर्दी याचते । स च दातुं न शक्नोति, ततो नीयते राजकुलं, पथि गच्छतः तस्य कोऽपि अश्वारूढः पुरुषः संमुखं आगच्छति, स च अश्वेन पातितोऽश्वश्च पलायमानो वर्तते, ततः तेन उक्तं- आहन्यतां एप दंडेन अश्व इति, तेन च अकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युं उपागमत्, ततस्तेनापि पुरुषेण वराको गृहीतस्ते च यावत् नगरमायाताः तावत्करणमुत्थितं इति कृत्वा ते नगरबहिः प्रदेशे एवोपिताः, तत्र च बहवो नटाः सुप्ता वर्तन्ते, स
१ पंच इति भाषायाम् ।
अवचूरिसमलंकृतम्
॥१२१॥