________________
नन्दिसूत्रम्
॥१२०॥
पादलिप्तसूरीणां वैनयिकी बुद्धिः || ९ || 'अगए 'त्ति क्वचित् पुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धुं आरब्धः, ततस्तेन राज्ञा सर्वाणि अपि पानीयानि विनाशयितव्यानि इति विषकरः सर्वत्र पातितस्ततः कोऽपि कियत् विषं आनयति, तत्र एको वैद्यो यवमात्रं विषं आनीय राज्ञः समर्पितवान्-देव ! गृहाण विषं इति, राजा च स्तोकं विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास - देव ! सहस्रवेधि इदं विषम्, तस्मात् अप्रसादं मा कार्षीः राजावादीत् कथं एतदवसेयम् १, स उवाच - देव ! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिनः पुच्छदेशे वालं एकं उत्पाट्य तदीये रंध्रे विषं संचारितं विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वन् दृश्यते, वैद्यश्च राजानं अभिधत्ते - देव ! सर्वोऽपि एप हस्ती विषमयो जातः, योऽपि एनं भक्षयति सोऽपि विषमयो भवति, एवमेतत् विषं सहस्रवेधि ततो राजा हस्तिहानिदूनचेताः तं प्रति उवाच - अस्ति कोऽपि हस्तिनः प्रतीकारविधिः ?, स अवादीत् - बाढं अस्ति, ततस्तस्मिन् एव वालरंध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटिति एव प्रशांतो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय । वैद्यस्य वैनयिकी बुद्धिः ॥ १० ॥ रहिए य गणिया' इति स्थूलभद्रकथानके रथिकस्य यत्सहकारफललंबित्रोटनं यत् च गणिकायाः सर्षपराशेः उपरि नर्त्तनं ते द्वे अपि वैनयिकी बुद्धिफले ॥ ११ ॥ 'सीआ' इत्यादि क्वचित् पुरे कोऽपि राजा, तत्पुत्राः केनापि आचार्येण शिक्षयितुं आरब्धाः, ते च तस्मै आचार्याय प्रभूतं द्रव्यं दत्तवंतः राजा च द्रव्यलोमी तं मारयितुं इच्छति, तैश्च पुत्रैः कथंचिदेतत् ज्ञात्वा चितितं - अस्माकं एष विद्यादायी परमार्थपिता, ततः कथं अपि एनं आपदो निस्तारयामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कां अपि शाटीं वदंति - "अहो सीया साडी” द्वारसंमुखं च तृणं कृत्वा वदंति - अहो दीर्घं तृणं, पूर्व च क्रौंचकेन सदैव प्रदक्षिणीक्रियते, संप्रति तु स तस्यापसव्यं अमितः, तत
अवचूरिसमलंकृतम्
॥१२०॥