________________
नन्दिसूत्रम् ॥११९ ॥
स्थविरस्य वैनयिकी बुद्धिः ॥ ७ ॥ 'लक्खण'त्ति पारसीकः कोऽपि अश्वस्वामी कस्यापि अश्वरक्षकस्य कालनियमनं कृत्वाऽश्वरक्षणमूल्यं द्वौ अव प्रतिपन्नवान् । सोऽपि च अश्वस्वामिनो दुहित्रा समं वर्तते, ततः सा तेन पृष्टा को अश्वौ भव्यौ इति १, तया उक्तं- अमीषां अश्वानां मध्ये यौ पाषाणभृतकुतुपानां वृक्षशिखराव मुक्तानां अपि शब्दमाकर्ण्य नोत्रस्यतः तौ भव्यौ, तेन तथैव तौ परीक्षितौ, ततो वेतनप्रदानकाले सोऽभिधत्ते मह्यं अमुकं अमुकं च अश्वं देहि, अश्वस्वामी प्राह- सर्वान् अपि अन्यान् अश्वान् गृहाण, किं एताभ्यां तत्र इति ? स न इच्छति, ततो अश्वस्वामिना स्वभार्यायै निवेदितं भणितं च-गृहजामाता क्रियतां एष इति, अन्यथा प्रधानौ अव एष गृहीत्वा यास्यति, सा नैच्छत्, ततोऽश्वस्वामी ग्राह-लक्षणयुक्तेन अश्वेन अन्येऽपि बहवोऽश्वाः संपर्यंते कुटुंबं च परिवर्द्धते लक्षणयुक्तौ च इमौ अवौ, तस्मात् क्रियतां एतदिति, ततः प्रतिपन्नं तया, दत्ता तस्मै खदुहिता, कृतो गृहजामाता इति, अश्वस्वामिनो वैनयिकी बुद्धिः ॥ ८ ॥ 'गंठी' त्ति पाटलिपुरे नगरे मुरुंडो राजा, तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा - 'मूढं सूत्रं समा यष्टिः अलक्षितद्वार: समुद्रको जतुना घोलितः तानि च मुरुडेन राज्ञा सर्वेषां अपि आत्मपुरुषाणां दर्शितानि, परं न केनापि ज्ञातानि, ततः आकारिताः पादलिप्ताचार्याः, पृष्टा राज्ञा भगवन् ! यूयं जानीत ?, सूरय उक्तवंतो- बाढं, ततः सूत्रं उष्णोदके क्षि उष्णोदकसंपर्कात च विलीनं मदनं इति लब्धः सूत्रस्यतिः, यष्टिः अपि पानीये क्षिप्ता, ततो गुरुभागो मूलं इति ज्ञातं, समुद्रकेsपि उष्णोदके क्षिप्ते तु सर्व गलितं इति द्वारं प्रकटं बभूव । ततो राजा सूरीन् प्रत्यवादीत्-भगवन् ! यूयं अपि दुर्विज्ञेयं किं अपि कौतुकं कुरुत येन तत्र प्रेषयामि । ततः सूरिभिः तुंबं एकस्मिन् प्रदेशे खंड एक अपहाय रत्नानां भृतं, ततस्तथा तत् खंडं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्र राजकीयाः पुरुषाः - एतत् अभंक्त्वा इतो रत्नानि गृहीतव्यानि न शक्तं तैः एवं कर्तुम् । १ चर्ममयभाजनमित्यर्थः भाषायां 'कुल' इत्युच्यते ।
अवचूरिसमलंकृतम्
॥११९॥