________________
नन्दिसूत्रम् ॥११८॥
चक्षुषा सानंदमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच तव दोषा यत् न विमर्श करोषि न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृता विमर्शे तु यूयं इति विमृश्यकारिणो वैनयिकी बुद्धिः || १ || 'अत्थसत्थे 'ति, अर्थशास्त्रे कल्पको मंत्री दृष्टांतो, 'दहिकुंडगउत्थुकलावउय इति संविधानके ॥ २ ॥ 'लेहे 'ति लिपिपरिज्ञानं ॥ ३ ॥ 'गणिए 'त्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी ॥ ४ ॥ 'कूवे' ति खातपरिज्ञानकुशलेन केनापि उक्तं यथा एतत् दूरे जलमिति, ततः तावत् प्रमाणं खातं परं न उत्पन्नं जलं, ततस्ते खातपरिज्ञाननिष्णाताय निवेदयामासुः - न उप्तन्नं जलमिति, तस्तेन उक्तं यथा पाणिप्रहारेण पार्श्वन्याहत, आहतानि तैः, ततः पाणिप्रहारसमकालं एव समुच्छलितं तत्र जलं, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धिः ॥ ५ ॥ 'अस्से' त्ति बहवोऽश्ववणिजो द्वारवतीं जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्च अश्वान् गृह्णति, वासुदेवेन पुनः यो लघीयान् दुर्बलो लक्षणसंपन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्रावश्व जातः । वासुदेवस्य वैनयिकी बुद्धिः ॥ ६ ॥ ' गद्दमे' त्ति कोऽपि राजा प्रथमयौवनिकां अधिरूढः तरुणिमानमेव रमणीयं सर्वकार्यक्षमं च मन्यमानः तरुणानेव निजकटके धारितवान् वृद्धांस्तु सर्वान् अपि निषेधयामास, सोऽन्यदा कटकेन गच्छन् अपांतराले अटव्यां पतितवान्, तत्र च समस्तोऽपि जनः तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनापि उक्तो-देव ! न वृद्धपुरुषशेमुषी पोतमंतरेणायमापत्समुद्रस्तरीतुं शक्यते, ततो गवेषयंतु देवपादाः क्वापि वृद्धं इति, ततो राजा सर्वस्मिन् अपि कटके पह उद्घोषितः, तत्र च एकेन पितृभक्तेन प्रच्छन्नो निजपिता समानीतो वर्तते । ततस्तेन उक्तं मम पिता वृद्धोस्ति इति । ततो नीतो राज्ञः पार्श्वे, राजा च सगौरवं पृष्टः कथय महापुरुष ! कथं मे कटके पानीयं भविष्यति ? तेन उक्तं-देव ! रासभाः स्वैरं मुच्यतां, ततो यत्र ते भुवं उज्जियंति तत्र पानीयं अतिप्रत्यासन्नं अवगंतव्यं तथैव कारितं राज्ञा, समुत्पादितं पानीयं स्वस्थीबभूव च समस्तं कटकं इति ।
अवचूरिसमलंकृतम्
।।११८।।