________________
अवचूरिसमलंकृतम्
३११७॥
नन्दिसूत्रम् ।
जगाम, दृष्टश्च उद्धूलितजंघः स्वपुत्रो गृहं आगतः, ततः प्रणता स्वपुत्रेण, सा च आशीर्वादं निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तांतं, ततः पुत्रं आपृच्छय वस्त्रयुगलं रूपकान् च कतिपयानादाय विमृश्यकारिणः समर्पयामास । अविमृश्यकारी च खेदं आवहन वचेतसि अचिंतयत्-नूनं अहं गुरुणा न सम्यक् पाठितः, कथमन्यथाहं न जानामि ?, एष जानातीति, गुरुप्रयोजनं कृत्वा
समागतौ द्वौ गुरोः पार्थे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृतांजलिपुटः सबहुमानं आनंदाश्रुप्लावितलोचनो गुरोः हा पादौ अंतरा शिरः प्रक्षिप्य प्रणिपपात । द्वितीयोऽपि शैलस्तंभ इव मनाम् अपि अनमितगात्रयष्टिः मात्सर्यवह्निसंपर्कतो धूमायमानो
ऽअतिष्ठते, ततो गुरुः तं प्रत्याह-रे! किं इति पादयोन पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, न अहं इति, गुरुः
आह-कथं त्वं सम्यक् न पाठितः ?, ततः स प्राचीनं वृत्तांत सकलं अचकथत् , यावदेतस्य ज्ञानं सर्व सत्यं न मम इति, ततो गुरुणा | विमृश्यकारी पृष्टः-ऋथय वत्स! कथं त्वया इदं ज्ञातं इति ?, ततः स प्राह-मया युष्मत्पादादेशेन विमर्शः कर्तुं आरब्धो-यथा एतानि 5 हस्तिरूपस्य पदानि सुप्रतीतानि एव, विशेषचिंतायां तु किं हस्तिन उत हस्तिन्याः?, तत्र कायिकी दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्श्वे वृतिसमारूढवल्लीवितान आलूनविशीर्णो हस्तिनीकृतो कुदृष्टः न वामपार्श्वे ततो नूनं निश्चिक्ये-चामेन चक्षुषा काणा इति । तथा न अन्य एवंविधपरिकरोपेतो हस्तिन्यां अधिरूढो गंतुं अर्हति, ततोऽवश्यं राजकीयं किं अपि मानुषं याति इति निश्चितं, तच्च मानुषं क्वचित् प्रदेशे हस्तिन्या उत्तीर्य शरीरचिंतां कृतवान् , कायिकी दृष्ट्वा राज्ञी इति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभरीका, भूमौ हस्तं निवेश्य उत्थानाकारदर्शनात् गुर्जी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात् प्रजने कल्येति । वृद्धस्त्रियाः प्रश्नानंतरं घटनिपाते च एवं विमर्शः कृतः-यथा एष घटो यत उत्पन्नः तत्र एव मिलितः तथा पुत्रोऽपि इति, तत एवमुक्ते गुरुणा स विमृश्यकारी
||११७॥
स.सू.१०