________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम्
बहुमानपुरस्सरं गुरोः विनयपरायणो यत् किं अपि गुरुः उपदिशति तत्सर्व तथा इति प्रतिपद्य स्वचेतसि निरंतरं विमृशति । विमृशतश्च
यत्र क्वापि संदेह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलं आगत्य पृच्छति, एवं निरंतर विमर्शपूर्व शास्त्रार्थ तस्य चिंतयतः प्रज्ञापकर्ष ॥११६॥ IM उपजगाम, द्वितीयस्तु एतद्गुणविकला, तौ च अन्यदा गुरुर्निर्देशात् क्वचित् प्रत्यासन्ने ग्रामे गंतुं प्रवृत्तौ, पथि च कानिचित् महांति पदानि
तौ अदर्शताम् , तत्र विमृश्यकारिणा पृष्ट-भोः! कस्य अमूनि पदानि ? तेन उक्तं-किं अत्र पृष्टव्यं हस्तिनोऽमूनि पदानि? ततो विमृश्यकारी प्राह-नैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी बामेन चक्षुषा काणा, तां अधिरूढा गच्छति काचित् राज्ञी, सा च
सभर्तृका गुबिणी च प्रजने च कल्या, अद्य श्वो वा प्रसविष्यते । पुनश्च तस्या भविष्यति, तत एवं उक्त सोऽविमृश्यकारी ब्रूते-कथं एतदव- 1 Diसीयते ?, विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसारं' इति अग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्रामं, दृष्टा चावासिता 1 तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी बामेन च चक्षुषा काणा । अत्रांतरे च काचित् दासचेडी महत्तम 18
प्रत्याह-वर्धाप्यसे राश्याः पुत्रलाभेन इति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडीवचनं इति, तेन उक्त-परिWभावितं मया सर्व, न अन्यथा तव ज्ञानं इति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोः अधो विश्रामाय स्थिती,
दृष्टौ च कयाचित् शिरोन्यस्तजलभृतघटया वृद्धस्त्रिया, परिभाविता च तयोः आकृतिस्ततः चिंतयामास-नूनं एतौ विद्वांसौ, ततः पृच्छामि देशांतरं गतनिजपुत्रागमनं इति, पृष्टं तया, प्रश्नसमकालं एव च शिरसो निपत्य भूमौ घटः शतखंडशो भग्नः । ततो झटिति
एव अविमृश्यकारिणा प्रोचे-गतस्ते पुत्रो घट इव व्यापत्ति इति, विमृश्यकारी ब्रूते स्म-मा वयस्य एवं वादीः, पुत्रोऽस्या गृहे समागतो 12 जावते, याहि मातः! वृद्धे ! स्वपुत्रमुख अवलोकय, तत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुंजाना स्वगृहं
॥११॥