SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम् बहुमानपुरस्सरं गुरोः विनयपरायणो यत् किं अपि गुरुः उपदिशति तत्सर्व तथा इति प्रतिपद्य स्वचेतसि निरंतरं विमृशति । विमृशतश्च यत्र क्वापि संदेह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलं आगत्य पृच्छति, एवं निरंतर विमर्शपूर्व शास्त्रार्थ तस्य चिंतयतः प्रज्ञापकर्ष ॥११६॥ IM उपजगाम, द्वितीयस्तु एतद्गुणविकला, तौ च अन्यदा गुरुर्निर्देशात् क्वचित् प्रत्यासन्ने ग्रामे गंतुं प्रवृत्तौ, पथि च कानिचित् महांति पदानि तौ अदर्शताम् , तत्र विमृश्यकारिणा पृष्ट-भोः! कस्य अमूनि पदानि ? तेन उक्तं-किं अत्र पृष्टव्यं हस्तिनोऽमूनि पदानि? ततो विमृश्यकारी प्राह-नैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी बामेन चक्षुषा काणा, तां अधिरूढा गच्छति काचित् राज्ञी, सा च सभर्तृका गुबिणी च प्रजने च कल्या, अद्य श्वो वा प्रसविष्यते । पुनश्च तस्या भविष्यति, तत एवं उक्त सोऽविमृश्यकारी ब्रूते-कथं एतदव- 1 Diसीयते ?, विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसारं' इति अग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्रामं, दृष्टा चावासिता 1 तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी बामेन च चक्षुषा काणा । अत्रांतरे च काचित् दासचेडी महत्तम 18 प्रत्याह-वर्धाप्यसे राश्याः पुत्रलाभेन इति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडीवचनं इति, तेन उक्त-परिWभावितं मया सर्व, न अन्यथा तव ज्ञानं इति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोः अधो विश्रामाय स्थिती, दृष्टौ च कयाचित् शिरोन्यस्तजलभृतघटया वृद्धस्त्रिया, परिभाविता च तयोः आकृतिस्ततः चिंतयामास-नूनं एतौ विद्वांसौ, ततः पृच्छामि देशांतरं गतनिजपुत्रागमनं इति, पृष्टं तया, प्रश्नसमकालं एव च शिरसो निपत्य भूमौ घटः शतखंडशो भग्नः । ततो झटिति एव अविमृश्यकारिणा प्रोचे-गतस्ते पुत्रो घट इव व्यापत्ति इति, विमृश्यकारी ब्रूते स्म-मा वयस्य एवं वादीः, पुत्रोऽस्या गृहे समागतो 12 जावते, याहि मातः! वृद्धे ! स्वपुत्रमुख अवलोकय, तत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुंजाना स्वगृहं ॥११॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy