SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥११५॥ सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति भरनित्रणसमत्था तिवग्ग सुत्तत्थगहिअपेआला ॥ उभओ लोगफलवई विणयसमुत्था हव बुद्धी ॥ ६ ॥ निमित्ते' अत्थसत्थे ये लेहे' गणिए में कूबे अस्से र्यं ॥ गद्द लक्खणं गंठी' अगएं रहिए थे गणिया ये ॥ ७ ॥ सीआ साढी दीहं च तणं अवसव्वयं च कुंचसं ॥ froster अॅ गोणे घोडगपडणं च रुक्खाओ ॥ ८ ॥ भर इत्यादि, इहातिगुरु कार्य दुर्निर्वहत्वात् भर इव भरः तत् विस्तरणे समर्था भरनिस्तरणसमर्थाः त्रयो वर्गाः त्रिवर्गाः लोकरूढ्या धर्मार्थकामाः तत् अर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तत् अर्थः तौ त्रिवर्गमुत्रार्थी तयोः गृहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह - ननु अश्रुतनिश्रिता बुद्धयो वक्तुं अभिप्रेताः, ततो यदि अस्याः त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं न उपपद्यते, न हि श्रुताभ्यासमंतरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्र उच्यते; इह प्रायो वृत्तिं आश्रित्य अश्रुतनिश्रितत्वं उक्तं, ततः खल्पश्रुतभावेऽपि न कश्चित् दोषः । तथा उभय लोकफलवतीं ऐहिके आमुष्मिके च लोके फलदायिनी विनयसमुत्था भवति बुद्धिः ॥ १ ॥ संप्रति अस्या एव विनेयजनानुग्रहार्थं उदाहरणैः स्वरूपं दर्शयति- 'निमित्ते' गाहा, 'सीया' गाहा, गाथाद्वयार्थः कथानकेभ्योऽवसेयः, तानि च ग्रंथगौरवभयात् संक्षेपेण उच्यंते - तत्र 'निमित्ते इति, क्वचित् पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रं अधीतवंतौ, एको अवचूरिसमलंकृतम् ॥११५॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy