________________
अवचूरिसमलंकृतम्
RI
नन्दिसूत्रमतत एतावतं कालं यावत् अविशेषेण खादतां पिबतां इति, ततो न यस्याः पुत्रः साचिंतयत्-लब्धः तावत् एतावान् कालः, पश्चात्
किं अपि यद्भविष्यति तन्न जानीमः । ततो हृष्टबदनया प्रतिपन्न, ततो देव्या जझे-न एषा पुत्रस्य माता इति निभत्सिता, द्वितीया च ॥११४॥
गृहस्वामिनी कृता देव्या औत्पत्तिकी बुद्धिः ॥ २५ ॥ 'इच्छाय महे'त्ति काचित् स्त्री, तस्या भर्ता पंचत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः पतिमित्रं भणितवती-मम दापय लोकेभ्यो धनं इति, ततस्तेन उक्त-यदि मम भागं प्रयच्छसि, तयोक्तं यदिच्छसि तत् मह्यं दद्यादिति, ततः तेन लोकेभ्यः सर्व द्रव्यं उद्वाहितं, तस्यै स्तोकं प्रयच्छति । ततो जातो राजकुले व्यवहारः, कारणिकैः यदुद्राहितं द्रव्यं तत् सर्व आनायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति । ततः पृष्टः कारणिकैः स पुरुषः-किं भागं त्वं इच्छसि ?, स प्राह-महांतं इति, ततः कारणिकैः अक्षरार्थो विचारितो यदिच्छसि तत् मह्यं दद्यादिति, त्वं च। इच्छसि महांतं भागं ततो महान भाग एतस्याः, द्वितीयस्तु तव इति । कारणिकानां औत्पत्तिकी बुद्धिः ॥ २६ ॥ 'सयसहस्से'त्ति कोऽपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञ, स च यत् एकवारं शृणोति तत्सर्व तथैव अवधारयति । स निजप्रज्ञागवं उद्बहन सर्वसमक्षं प्रतिज्ञां कृतवान्-यो नाम मां अपूर्व श्रावयति तस्मै ददामि इदं निजभाजनं इति, न च कोऽपि अपूर्व श्रावयितुं शक्तो, स हि यत् किं अपि शृणोति तत्सर्व अस्खलितं तथैव अनुवदति, वदति च अग्रेऽपि इदं मया श्रुतं, कथमन्यथाऽहमस्खलितं भणामि इति । एतत्सर्वत्र ख्याति अगमत्ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रति उक्कं अहमपूर्व श्रावयिष्यामि ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठी । “तुज्झ पिया मह पिउणो धारेइ अणूणगं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देसु ॥१॥" जितः परिव्राजकः । सिद्धपुत्रस्य औत्पत्तिकी बुद्धिः ।।२७ ।। तदेवं उक्ता बुद्धिः औत्पत्तिकी ।
G
॥११४॥