SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ११३॥ -- कुशलः, स परिभ्रमन् एकत्र ईश्वरपुत्रान् शिक्षयितुं प्रावर्तत, तेभ्यश्च ईश्वरपुत्रेभ्यः प्रभृतं द्रव्यं प्राप्तवान् , ततः पित्रादयस्तेषां चिंत- यामासुः, प्रभूतं एतस्मै कुमारा दत्तवंतः, ततो यदासौ यास्यति तदा एनं मारयित्वा सर्व गृहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः खबंधूनां ग्रामांतरवासिना कथं अपि ज्ञापितं भणितं च-यथाहं अमुकस्यां रात्रौ नद्यां गोमयपिंडान् प्रक्षेप्यामि भवद्भिः ते ग्राह्या इति, । ततस्तैः तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिंडास्तेन कृताः, आतपे च शोषिताः, तत ईश्वरपुत्रानिति उवाच-यथा एषोऽस्माक विधिर्विवक्षिततिथिपर्वणि स्नानमंत्रपुरस्सरं गोमयपिंडा नद्यां प्रक्षिप्यते इति, तैः अपि यथा गुरवो व्याचक्षते तथा इति प्रतिपन्न, ततो विवक्षिततिथिरात्रौ तैः ईश्वरपुत्रैः समं स्नानमंत्रपुरस्सरं ते सर्वेऽपि गोमयपिंडा नद्या प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिंडा नीता बंधुभिः स्वग्रामे, ततः कतिपयदिनातिक्रमे तान् ईश्वरपुत्रान् तेषां च पित्रादीन् प्रत्येक मुत्कलय्यात्मानं च वस्त्रमात्रपरिग्रहोपेतं दर्शयन् जनसमक्षं स्वग्राम जगाम । पित्रादिभिश्च परिभावितो न अस्य पाच किं अपि अस्ति इति न मारितः। तस्य औत्पत्तिकी बुद्धिः॥ २४ ॥ 'अस्थसत्थे त्ति, अर्थशास्त्रं-अर्थविषयं नीतिशास्त्रं, तत् दृष्टान्तभावना-कोऽपि वणिक, तस्य द्वे पत्न्यौ, एकस्याः पुत्रो अपरा वंध्या, परं सापि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेष नावबुध्यते-यथा-इयं मे जननी न इयं इति, सोऽपि वणिक् सभार्यापुत्रो देशांतरं अगमत. यत्र सुमतिखामिनस्तीर्थक्रतो जन्मभूमिः, तत्र च गतमात्र एव दिवं गतः, सपत्न्योश्च परर ऽभूत् । एका ब्रूते-मम एष पुत्रः ततः अहं गृहस्वामिनी, द्वितीया ब्रूते-ऽहं इति, ततो राजकुले व्यवहारो जातः, तथापि न निलति, एतच्च भगवति तीर्थकरे सुमतिस्वामिनि गर्भ स्थिते तत् जनन्या मंगलादेव्या जज्ञे, तत आकारिते द्वे अपि ते सपत्न्यौ, ततो देव्या प्रत्यपादि कतिपयदिनानंतरं मे पुत्रो भविष्यति ?, स च वृद्धि अधिरूढोऽस्य अशोकपादपस्य अधास्तात् उपविष्टो युष्माकं व्यवहारं छेत्स्यति, एवं गतः, सपन्योश्च परस्परं कलहो ॥११३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy