________________
नन्दिसूत्रम् १११२ ।।
वयं दैवेन चक्षुषी दत्वाऽस्माकं समुत्पाटिते यत् निधानमुपदिश्य अंगारकाः दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखं अवलोकते, ततो द्वितीयेन जज्ञे - नूनमनेन हृतं निधानमिति, ततः तेनापि आकारसंवरणं कृत्वा तस्यानुशासनार्थ ऊंचे-मा वयस्य ! खेदं कार्षीः न खलु खेदं विधानप्रत्यागमनहेतुः, ततो गतौ द्वौ अपि स्वं स्वं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीवा इव प्रतिमाकारि, द्वौ च गृहीतौ मर्कटको, प्रतिमायाश्च उत्संगे हस्ते शिरसि स्कंधे च अन्यत्र च यथायोगं तयोर्मर्कटकयोर्योग्यं भक्ष्यं मुक्तवान्, तौ च मर्कटको क्षुधापीडितों तत्र आगत्य प्रतिमाया उत्संगादौ भक्ष्यं भक्षितवंती, एवं च प्रतिदिनं करणे तयोः तादृश्यैव शैली समजनि, ततोऽन्यदा किं अपि पर्वाधिकृत्य मायाविनो द्वौ अपि पुत्रौ भोजनाय निमंत्रितौ, समागतौ च भोजनवेलायां तद्गृहे, भोजितौ च तौ तेन महागौरवेण, भोजनानंतरं च तौ महता सुखेन अन्यत्र संगोपितौ, ततः स्तोकदिनावसाने मायावी स्वपुत्रसाराकरणाय तगृहमागतः तवो द्वितीयः तं प्रति ब्रूते - मित्र ! तौ तव पुत्रौ मर्कटी अभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्राविशत्, ततो लेप्यमयीं प्रतिमां उत्सातत् स्थाने समुपवेशितः, मुक्तौ स्वस्थानात् मर्कटी, तौ च किलकिलायमानौ तस्य उत्संगे शिरसि स्कंधे हस्ते च आगत्य विलयौ, ततो मित्रं अवादीत्-भो ! वयस्य ! तौ एतौ तब पुत्रौ, तथा च पश्य तव स्नेहं आत्मीयं दर्शयतः, स मायावी प्राह- त्रयस्य ! किं मानुषैौ अकस्मात् मर्कटो भवतः ? वयस्य आह-भवतः कर्म्मप्रातिकूल्यवशात्, तथा हि-किं सुवर्णं अंगारी भवति १ परमावयोः कर्म्मप्रातिकूल्यात् एतदपि जातं, तथा पुत्रौ अपि तब मर्कटौ अभूतां इति, ततो मायावी चिंतयामास- नूनं अहं ज्ञातोऽनेन, ततो यदि उचैः शब्द करिष्ये ततोऽहं राजग्राह्यो भविष्यामि पुत्रौ च अन्यथा मे न भवतस्ततः तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समर्पितौ पुत्रौ । तस्य औत्पत्तिकी बुद्धिः || २३ || 'सिखु त्ति शिक्षा धनुर्वेदः, तदुदाहरणभावना - कोऽपि पुमान् अतीव धनुर्वेद
अवचूरिसमलंकृतम्
॥११२॥