________________
नन्दिमूत्रम्
॥१११॥
स्वं च नवलकं तस्य पार्श्वे याचितवान्, सोऽपि तं समर्पयामास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं ततो मुद्रां स्फोटयित्वा यावत् पणान् परिभावयति तावत् हीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकैः कः कालः स आसीत् ?, यत्र त्वया नवलको मुक्त इति । नवलकस्वामी प्राह- अमुक इति, ततः कारणिकैः उक्तं स चिरंतन कालोऽधुनातनकालकृताश्च दृश्यतेऽमी पणाः, ततो मिथ्याभाषी नूनं एष निक्षेपग्राही इति दंडितो, दापितश्च इतरस्य तावतः पणान् इति । कारणिकानां औत्पत्तिकी बुद्धिः ।। २१ । 'भिक्खुत्ति भिक्षुदाहरणं, तद्भावना कोऽपि कस्यापि भिक्षोः पार्श्वे सुवर्णसहस्रं निक्षिप्तवान्, कालांतरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलं अद्य कल्ये वाददामि इति प्रतारयति । ततः तेन द्यूतकारा अवलगिताः, तैः प्रतिपन्नं निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेपेग सुवर्णखुट्टिकां गृहीत्वा भिक्षुसकाशं गता वदति च चयं चैत्यवंदनाय देशांतरं यियासवो यूयं च परमसत्यतापात्रं अत एव सुवर्णखोटिका युष्मत्पार्श्वे स्थास्यंति, एतावति च अवसरे पूर्वसंकेतितः स पुरुषः आगतो, याचते स्म चभिक्षो ! समर्पय मदीयां स्थापनिकां इति । ततो भिक्षुणा अभिनवमुच्यमानसुवर्णखुट्टिकालंपटतया समर्पिता तस्य स्थापनिका तस्तै मा एतासामहमनाभागी जायेयेति बुद्धया, तेऽपि च द्यूतकाराः किमपि मिषांतरं कृत्वा स्वसुवर्णखुट्टिकां गृहीत्वा गताः । द्यूतकाराणां औत्पत्तिकी बुद्धिः ॥ २२ ॥ 'चेउग निहाणे' त्ति चेटका- बालका निधानं प्रतीतं, तत् दृष्टान्तभावना - द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभाव, अन्यदा कचित् प्रदेशे ताभ्यां निधानं उपलेभे । तत एको मायावी ब्रूते श्वस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतथा तथैव प्रतिपन्नं, ततः तेन मायाविना तस्मिन् प्रदेशे रात्रौ आगत्य निधानं हृत्वा तत्र अंगारकाः प्रक्षिप्ताः । ततो द्वितीयदिने तौ द्वौ अपि सह भूत्वा गतौ, दृष्टवंता तत्र अंगारकान् ततो मायावी मायया स्वोरस्ताङमाकंदितुं प्रावर्त्तत, वदति च हा हीन पुण्या
अवचूरिसमलंकृतम्
॥ १११ ॥