________________
नन्दिनसूत्रम्
॥११०॥
तस्यां वेलायां यः सुवर्णसहस्रनवलको मकत्कस्त्वत्समक्षं अमुकप्रदेशे मुक्तोऽस्ति । तं झटति मे समर्पय, तेन पुरुषेण तथैव कृतं । सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाभिज्ञानमिलनतश्च सत्यं एष पुरोधसा प्रेषित इति प्रतिपन्नवती, ततः समर्पयामास तं द्रमकनिक्षेपं तेन च पुरुषेण आनीय राज्ञः समर्पितो, राज्ञा च अन्येषां बहूनां नवलकानां मध्ये स द्रमकनवलकः प्रक्षिप्तः, आकारितो दमकः पार्श्वे च उपवेशितः पुरोधाः, द्रमकोऽपि तं आत्मीयं नवलकं दृष्ट्वा प्रमुदितहृदयो विकसितलोचनो अपगतचित्तशून्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्तः - देव ! देवपादानां पुरतः एवमाकारो मदीयो नवलकः । ततो राजा तं तस्मै समर्पयामास । पुरोधसच जिह्वाच्छेदं अचीकरद, राज्ञ औत्पत्तिकी बुद्धिः ॥ १९ ॥ 'अंके' त्ति अंकष्टभावना - कोऽपि कस्यापि पार्थे रूपकसहस्रनवलकं निक्षिप्तवान् तेन च निक्षेपग्राहिणा तं नवलकमधः प्रदेशे छित्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव सीवितः, ततः कालांतरे तस्य पार्श्वात् निक्षेपस्वामिना खनिक्षेपो गृहीतः परिभावितः सर्वतः तथैव दृश्यते मुद्रादिकं तत उद्घाटिता मुद्रा यावद्रूपकान् परिभावयति तावत्सर्वान् अपि कूटान् पश्यति, ततो जातो राजकुले [ तयोः ] व्यवहारः, पृष्टः कारणिकैः निक्षेपखामी - भोः कतिसंख्याः तव नवलके रूपका आसीरन् ? स प्राह-सहस्रं ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलकः, स च परिपूर्ण भृतः, केवलं यावत् मात्रं अधस्ताच्छिन्नः तावता न्यून इति उपरि सीवितुं न शक्यते । ततो ज्ञातं कारणिकैः नूनं अस्यापहृता रूपकास्ततो दापितो रूपकसहस्रं इतरो नवलकखामिनः । कारणिकानां औत्पत्तिकी बुद्धिः || २० || 'नाण' ति कोऽपि कस्यापि पार्श्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान् । ततो देशांतरं प्रभूते च कालेऽतिक्रांते निक्षेपग्राही तस्मात् नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णक सुवर्णपणान् तात् संख्याकान् तत्र प्रक्षिप्तवान् । तथैव च स नवलकः तेन सीवितः, ततः कतिपयदिनानंतरं स नवलकखामी देशांतरादागतः,
अवचूरिसमलंकृतम्
॥११०॥