________________
नन्दिमूत्रम
अवचूरिसमलंकृतम्
॥१०९॥
C- NCR
SAT SKAR
पुरुषेण सह कस्मिंश्चित् प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानंतरं च | समागता गृहे, द्वितीये च दिवसे स्खभर्ता मदनं क्रीणस्तया निवारितो-मा क्रीणीहि मदनं, अहं ते भ्रामरं उत्पन्न दर्शयिष्यामि । ततः स कर्यात् विनिवृत्तो, गतौ च तौ द्वौ अपि तां जालिं, न पश्यति सा कथं अपि कोलिकी भ्रामरं, ततो येन संस्थानेन मैथुन सेवितवती तेन एव संस्थाने स्थिता, ततो दृष्टवती भ्रामर, दर्शयामास, च कोलिकाय, कोलिकोऽपि तथारूप संस्थानं अवलोक्य ज्ञातवान् नूनं | एपा दुश्वारिणी इति । कोलिकस्य औत्पत्तिकी बुद्धिः ॥ १८ ॥ 'मुद्दियत्ति मुद्रिका उदाहरणं, तत् भावना-कचित् पुरे कोऽपि
पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः-यथा परकीयान् निक्षेपान् आदाय आदाय प्रभूतकालातिक्रमेऽपि तथा स्थितानेव समर्पयति इति । ४ एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशांतरं अगमत् । प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते खं निक्षेपं ||
पुरोधसं, पुरोधाश्च मूलत एव अपलपति कस्त्वं कीदृशो वा तव निक्षेप इति । ततः स रंको पराकः खं निक्षेपं अलभमानः शून्यचित्तो बभूव । अन्यदा च तेन अमात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपं इति, तदेतत् आकर्ण्य अमात्यः तद्विषयकृपापरीतचेता बभूव । ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनं द्रमको, राज्ञापि भणितः पुरोधाः-देहि तस्मै द्रमकाय स्वं निक्षेपं इति, पुरोहितोवादीत-देव! न कि अपि तस्याहं गृह्णामि, ततो राजा मौनं अधात , पुरोधसि च खगृहं गते राजा विजने तं द्रमकं आकार्य पृष्टवान्-रे ! कथय सत्यमिति, ततस्तेन सर्व दिवसमुहूर्तस्थानपार्श्ववर्तिमानुषादिकं कथेयं कथितं, ततोऽन्यदा राजा पुरोधसा सम रंतुं प्रावर्त्तत, परस्परं नाममुद्रा च संचारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समय तं प्रति बभाण,-रे! पुरोधसो गृहं गत्वा तद्भायाँ एवं ब्रूहि-यथाहं पुरोधसा प्रेषितः, इयं च नाममुद्राभिज्ञानं, तस्मिन् दिने
2-56056
॥१०९॥