________________
नन्दिनम्
॥१०८॥
अतिआतुरश्च वर्त्तते ततस्तं प्रति अहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञे मंत्रिणा, प्रतिपन्नं राज्ञा तथा इति । मंत्रिण औत्पत्तिकी बुद्धिः ||१६|| 'पुत' चि पुत्रदृष्टांतः, तद्भावना - कोऽपि वणिक, तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा बंध्या, परं सापि तं पुत्रं सम्यग् पालयति, ततः स पुत्रो विशेषं न जानीते-दयं मे जननी इयं न इति, सोऽपि वणिक् सभार्यापुत्रो देशांतरं गतो, गतमात्र एव च परासुरभूत् । ततो द्वयोः अपि तयोः कलहोज्जायत, एका भणति - एष मम पुत्रस्ततः अहं गृहस्वामिनी, द्वितीया तु ब्रूते-का त्वं ?, मम एष पुत्रः ततः अहं एवं गृहस्वामिनीति, एवं च तयोः परस्परे कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान् भोः ! पूर्वं द्रव्यं समस्तं विभजत; विभज्य ततो दारकं द्वौ भागौ करपत्रेण कुरुत, कृत्वा च एकं खंड एकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतत् अमात्यवाक्यं शिरसि महाज्वाला सहस्रावलीढवत्रोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कं हृदयहृदयांतःप्रविष्टतिर्यक्रूशल्येव सदुःखं वक्तुं प्रवृत्ता हा स्वामिन्! महामात्य ! न मम एष पुत्रो, न मे किंचित् अर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च । अहं पुनः अमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्र्यं अपि कुर्वती जीवंत द्रक्ष्यामि तावता च कृतकृत्यं आत्मानं प्रपत्स्ये, पुत्रेण विना पुनः अधुनापि मे जीवलोको अस्तं उपयाति । इतरा च न किं अपि बक्ति, ततोऽमात्येन तां सदुःखां परिभाव्य उक्तं एतस्याः पुत्रो न अस्या इति, सा एव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्धाटिता, अमात्यस्य औत्पत्तिकी बुद्धिः ॥ १७ ॥
'भरहसिलमिंढे' इत्यादिका च गाथा रोहकसंविधानकसूचिका, सा च प्राग् उक्तकथानकानुसारेण स्वयमेव व्याख्येया । 'महुसित्थि' त्यादि, मधुयुक्तं सिक्थं मधुसिक्थं तत् दृष्टान्तभावना - कश्चित् कोलिकः तस्य भार्या खैरिणी, सा च अन्यदा केनापि
अवचूरिसमलंकृतम्
॥१०८॥