________________
| अवचूरिसमलंकृतम्
2064
नन्दिसूत्रम् बुद्धिः॥१०॥ 'अमचपुत्तेति अमात्यपुत्रस्य वरधनुर्नाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठस्वरूपज्ञापनादिषु तेषु तेषु प्रयोजनेषु पारिणामिकी
ट्र वृद्धिः ॥११॥'चाणके ति चाणक्यस्य चंद्रगुप्तराज्यं अनुशासतो भांडागारे निष्टिते सति यदेकदिवसजाताऽश्वादियाचनं सा पारि॥१२८॥
Mणामिकी बुद्धिः ॥ १२ ॥ 'थूलभद्दे'त्ति स्थूलभद्रस्वामिनः पितरि मारिते नंदेन अमात्यपदपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्या
प्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः॥१३ ॥ 'नासिकसुंदरी नंदेंचि नाशिक्यपुरे सुंदरीभर्तुः नंदस्य भ्रात्रा साधुना यत् मेरुशिरसि नयनं यच्च देवमिथुनकं दर्शितं सा पारिणामिकीबुद्धिः॥ १४ ॥ 'वइरेत्ति वज्रस्वामिनो बालभावेऽपि वर्तमानस्य मातरं अवगणय्य संघबहुमानकरण सा पारिणामिकी बुद्धिः ॥१५॥'चलणाहण'त्ति कोऽपि राजा तरुणैः व्युग्राह्यते यथा देव! तरुणा एव पार्श्वे धियंतां, किं स्थविरैः वलिपलितविशोभितशरीरैः?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दंड इति ?, ते पाहुः-तिलमात्राणि खंडानि स विकृत्य मार्यते इति, ततः स्थविरान् प्रपच्छ-तेऽवोचन्-देव! परिमाव्य कथयामः, ततस्तैः एकांते गत्वा चिंतितं-को नाम हृदयवल्लभा देवीमतिरिच्य अन्यो देवं शिरसि ताडयितुं ईष्टे, हृदयवल्लभा च देवी विशेषतः सन्माननीया इति, ततस्ते समागत्य राजानं विज्ञपयामासुः-देव! स विशेषतः सत्कारणीय इति, ततो राजा परितोष उपागतस्तान् प्रशंसितवान्-को नाम वृद्धान् विहाय अन्य एवंविधबुद्धिभाग् भवति ?, ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणान् इति । राज्ञः स्थविराणां [च] पारिणामिकी बुद्धिः ॥ १६ ॥ 'आमंडे'त्ति कृत्रिममामलकमिति, कठिनत्वात् अकालत्वाच्च केनापि यथावस्थितं ज्ञातं तस्य पारिणामिकी बुद्धिः॥ १७ ॥ 'मणी'ति कोऽपि सपों वृक्षं आरुह्य सदैव पक्षीणां अंडानि भक्षयति, अन्यदा च वृक्षस्थितो निपातितः, मणिश्च तस्य तत्र एव क्वचिन् प्रदेशे स्थितः, तस्य च वृक्षस्य अधस्तात् योऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकल
हा॥१२८॥