SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् **** चन्द्र इव सङ्घचन्द्रः तस्यामन्त्रणं, हे सङ्घचन्द्र तथा निम्मल-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स ||अषचरीसतथा 'शेषाद्वे'ति कः प्रत्ययः(७-३-२७५), तस्य आमन्त्रणं, हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक! दीर्घत्वं प्रागिव प्राकृतलक्षणात् मलकृतम्। अवसेयं, 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान् संघचन्द्रः सदैव जयन् प्रवर्तते, तथापि इत्थं स्तोतुः अमिधानं कुशलमनोवाक्कायप्रवर्तिकारणं इति अदुष्टम् ॥९॥ पुनरपि संघस्य एव प्रकाशकतया सूर्यरूपकेण स्तवमाहपरतित्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुजोयस्स जए भई दमसंघसूरस्स ॥१०॥ परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलंबिनः त एव ग्रहाः, तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा, तां अनंतनयसंकुलप्रवचनसमुत्थविशिष्टज्ञानभास्वरप्रभावितानेन नाशयति-अपनयति इति परतीर्थिकग्रहप्रभानाशकः तस्य [परतीर्थिकग्रहप्रभानाशकस्य तथा तपः तेज एव दीप्ता उज्वला लेश्या-भास्वरता यस्य स तथा तस्य तपःतेजोदीप्तलेश्यस्य । तथा ज्ञानं एव उद्योतो-वस्तुविषयप्रकाशो यस्य स तथा तस्य ज्ञानउद्योतस्य, 'जगति' लोके 'भद्रं' कल्याणं भवतु इति शेषः। दम-उपशमः तत् प्रधानसंघः सूर्य इव संघर्यस्तस्य दमसंघसूर्यस्य ॥१०॥ संप्रति संघस्य एव अक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराहभर घिइवेलापरिगयस्स मज्झायजोगमगरस्स। अक्खोहस्स भगवओ संघसमुरस्स रुदस्स ॥ ११ ॥ *****
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy